Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमः, 25 दिसंबरमासः (हि.स.)। प्रभोः ईशोः मसीहस्य पावनागमनानन्देन सर्वे जिलायां क्रिस्मस्-पर्वः श्रद्धया, उत्साहेन च आचरितः। बुधवासरस्य रात्रौ तीव्रे शैत्येऽपि नगरस्य सर्वाणि प्रमुखानि कलीसियाः भक्तैः पूर्णानि आसन्। मसीही-समुदायस्य बालकाः, युवा: महिलाः व वृद्धाः अपि महान्या संख्यया गिरिजागृहाणि गत्वा प्रभोः ईशोः जन्मोत्सवे सहभागी अभवन्।
रोमन-कैथोलिक-कलीसियासु विशेषाः प्रार्थना-सभाः आयोजिताः, यत्र ईसाई-पुरोहितैः प्रेमस्य, शान्तेः, सत्यस्य, अहिंसाया: भ्रातृत्वस्य च सन्देशः प्रदत्तः। कान्वेण्ट्-स्कूल्-चर्च्, कामल-स्कूल्-चर्च्, एक्स्-एल्-आर्-आइ, लोयोला-चर्च् इत्यादिषु कलीसियासु नियमपूर्वकं मिस्सा-बलिदानम् अर्पितम्। अस्मिन् अवसरि पवित्र-बाइबल्-ग्रन्थस्य वचनेषु प्रथम-द्वितीय-तृतीय-पाठाः पठिताः, समाजे, राज्ये, देशे, समग्रे लोके च शान्तेः उन्नतेः च कृते सामूहिका प्रार्थना अपि कृता।
कैरोल्-गीत-गायनेन सम्पूर्णं वातावरणं भक्तिभावपूर्णं जातम्। अनेके श्रद्धालवः स्वान् पापान् स्वीकृत्य कन्फेशनम् अकुर्वन्। पुरोहितैः तेषु पुण्यजलस्य छेदनं कृतम्, सत्य-प्रेम-न्याय-सदाचारमार्गे गन्तुं प्रेरणा च दत्ता। प्रभोः ईशोः मसीहस्य बालरूपं श्रद्धया प्रेम्णा च चरनीषु प्रतिष्ठापितम्; तस्य दर्शनाय नमस्काराय च दीर्घाः पङ्क्तयः भक्तानाम् अभवन्।
लोयोला-स्कूल्-चर्चे मुख्ययाजकः फादर् अजीत् सोरेङ् इत्यनेन क्रिस्मस्-शुभेच्छाः दत्वा उक्तं— क्रिस्मस् केवलं बाह्य-आनन्दस्य उत्सवस्य वा भौतिक-भोगस्य पर्व नास्ति, अपि तु प्रभोः ईशोः सन्देशानाम् आत्मसात्करणस्य अवसरः। सः अवदत्— प्रभुः ईशोः तमसि आगत्य समग्रमानवजात्याः कल्याण-मोक्षार्थं स्वं क्रूशे बलिदत्तवान्, यत् मानवः पाप-द्वेष-घृणा-लोभ-क्रोध-युद्धादिभ्यः विमुक्तः प्रेम-शान्ति-मार्गे गच्छेत्।
फादर् सोरेङ् अवदत्— क्रिस्मस् अस्माकं जीवने तदा एव सार्थकः, यदा वयं स्वीयाः विषयवासना त्यक्त्वा आध्यात्मिकतया प्रभोः ईशोः समीपं गच्छामः, तैः निर्दिष्टमार्गे च चरामः; तदा एव अस्माकम् आशाः प्रार्थनाश्च पूर्णाः भविष्यन्ति।
विशेष-प्रार्थना-सभासु फादर् मुक्ति-क्लेरेन्स्, फादर् सी जी थॉमस्, फादर् विक्टर् मिस्किथ्, फादर् कुरुविला, फादर् चार्ली परेरा, फादर् सिरिल् तिग्गा इत्येते अन्ये च धर्मगुरवः सहभागी अभवन्। तदानीं जम्शेदपुर-नगरस्य बेल्डीह्-बैपटिस्ट्-चर्च्, जी ई एल्, सी एन आइ-कलीसियासु गुरुवासरे प्रातः विशेष-प्रार्थनासभाः अपि आयोजिताः भविष्यन्ति।
क्रिस्मस-पर्वणि नगरस्य सर्वे गिरिजाघराः नानावर्ण-दीपैः शोभमानाः अभवन्। अर्धरात्रौ घोषटङ्कारेण प्रभोः ईशोः जन्मागमनयोः सन्देशः प्रदत्तः, येन सर्वे नगरे उत्सव-आस्था-पूर्णंपरिवेशं सञ्जातम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता