Enter your Email Address to subscribe to our newsletters


नवदेहली, 25 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदिनः अद्य द्वौ महत्त्वपूर्णौ कार्यक्रमौ वर्तेते। सः प्रातःकाले प्रथमं संसद्-क्रीडामहोत्सवेन सह आभासि-माध्यमेन संयोजितः भविष्यति। तदनन्तरं अपराह्णकाले उत्तरप्रदेशस्य राजधान्यां लखनऊनगरे ‘राष्ट्र-प्रेरणा-स्थलस्य’ उद्घाटनं करिष्यति। आधिकारिक-विज्ञप्तौ राष्ट्रप्रेरणास्थलस्य विस्तृतं विवरणं प्रदत्तम् अस्ति। भारतीयजनतादलेन उभयोः कार्यक्रमयोः सूचना ‘एक्स्’ इति सामाजिक-पटले प्रदत्ता अस्ति।
आधिकारिक-विज्ञप्त्यानुसारं, पूर्व-प्रधानमन्त्रिणः भारतरत्नस्य अटलबिहारीवाजपेयी-महोदयस्य शततम्याः जयन्त्याः अवसरे प्रधानमन्त्री नरेन्द्र-मोदी अद्य उत्तरप्रदेशस्य प्रवासं करिष्यति। प्रधानमन्त्री लखनऊनगरे वाजपेयीमहोदयस्य जीवनस्य आदर्शाणां च मान-सम्मानाय राष्ट्रप्रेरणास्थलस्य उद्घाटनं करिष्यति।
राष्ट्रप्रेरणास्थले डॉ. श्यामाप्रसादमुखर्जी, पण्डितदीनदयाल-उपाध्याय तथा पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयीमहोदयानां पञ्चषष्टि-फुट्-उन्नताः कांस्यमयी प्रतिमाः स्थापिताः सन्ति। राष्ट्र-प्रेरणा-स्थलस्य उद्घाटनं अपराह्णे २:३० वादनसमये भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी एकां विशालां जनसभामपि सम्बोधयिष्यति।
राष्ट्रप्रेरणास्थलस्य परिकल्पना प्रधानमन्त्री नरेन्द्रमोदीना एव कृता अस्ति। स्वतन्त्र-भारतस्य महतां-व्यक्तित्वानां विरासतायाः मान-सम्मानार्थं एतत् निर्मापितम् अस्ति। एतत् ऐतिहासिकं राष्ट्रिय-स्मारकं तथा स्थायी-राष्ट्रिय-महत्त्वयुक्तं प्रेरणादायकं परिसरं रूपेण विकसितं कृतम् अस्ति। प्रायः द्विशतत्रिंशत्-कोटिरूप्यकव्ययेन निर्मितं पञ्चषष्टि-एकर-परिमिते विशालक्षेत्रे विस्तृतं एतत् परिसरं स्थायीराष्ट्रियसम्पत्तिरूपेण परिकल्पितम् अस्ति। नेतृत्व-मूल्यानां, राष्ट्रिय-सेवायाः, सांस्कृतिक-चेतनायाः तथा सार्वजनिक-प्रेरणायाः संवर्धनार्थं एतत् राष्ट्राय समर्पयिष्यते।
अस्मिन् राष्ट्रप्रेरणास्थले अत्याधुनिकं संग्रहालयमपि अस्ति। एतत् संग्रहालयं कमल-पुष्पस्य आकारे निर्मितम् अस्ति, यत् प्रायः अष्टनवतिसहस्र-वर्गफुट्-परिमाणे विस्तृतम् अस्ति। अस्मिन् संग्रहालये भारतस्य राष्ट्रिययात्रा तथा एतेषां दूरदर्शिनां नेतॄणां योगदानं उन्नत-डिजिटल्-तथा इमर्सिव्-प्रौद्योगिकी-माध्यमेन प्रदर्श्यते, यत् आगन्तुकानां कृते आकर्षकं शैक्षिकं च अनुभवं प्रददाति। राष्ट्रप्रेरणास्थलस्य उद्घाटनं निःस्वार्थ-नेतृत्वस्य तथा सुशासनस्य आदर्शाणां संरक्षणे संवर्धने च दिशायां एकं महत्त्वपूर्णं पदक्षेपं वर्तते। एतत् वर्तमान-भावि-पीढीनां कृते प्रेरणास्रोतः भविष्यति। अस्मात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी प्रातः ११ वादनसमये संसद्-क्रीडा-महोत्सवं वीडियो-कॉन्फ्रेन्सिङ्-माध्यमेन सम्बोधयिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता