अमितशाहः ग्वालियरनगरे द्विलक्ष-कोटिरूप्यकमूल्यकानां परियोजनानां भूमिपूजनं लोकार्पणं च अकरोत्
ग्वालियरम्, 25 दिसंबरमासः (हि.स.)। केन्द्रीय गृहमन्त्री अमितशाहः ‘अभ्युदय मध्यप्रदेश ग्रोथ् समिट्’ इति कार्यक्रमस्य अन्तर्गतं गुरुवासरे ग्वालियरनगरे द्विलक्षकोटिरूप्यकमूल्यकानां परियोजनानां भूमिपूजनं लोकार्पणं च अकरोत्। पूर्व-प्रधानमन्त्री भारतरत्न
अभ्युदय एमपी ग्रोथ समिट में केन्द्रीय गृह मंत्री अमित शाह


अभ्युदय एमपी ग्रोथ समिट में केन्द्रीय गृह मंत्री अमित शाह


अभ्युदय एमपी ग्रोथ समिट का शुभारंभ


अभ्युदय एमपी ग्रोथ समिट में प्रदर्शनी का अवलोकन


अभ्युदय एमपी ग्रोथ समिट में प्रदर्शनी का अवलोकन


ग्वालियरम्, 25 दिसंबरमासः (हि.स.)। केन्द्रीय गृहमन्त्री अमितशाहः ‘अभ्युदय मध्यप्रदेश ग्रोथ् समिट्’ इति कार्यक्रमस्य अन्तर्गतं गुरुवासरे ग्वालियरनगरे द्विलक्षकोटिरूप्यकमूल्यकानां परियोजनानां भूमिपूजनं लोकार्पणं च अकरोत्। पूर्व-प्रधानमन्त्री भारतरत्न अटल बिहारी मवाजपेयी-महोदयस्य एकोत्तरशततम-जन्मजयन्त्यवसरे मध्यप्रदेशस्य ग्वालियर-नगरे मेला-प्राङ्गणे ‘अभ्युदय मध्यप्रदेश् ग्रोथ् समिट्’ इति कार्यक्रमस्य शुभारम्भः गुरुवासरे केन्द्रीय गृहमन्त्री अमितशाहेन तथा मुख्यमंत्रीणा डॉ. मोहनयादवेन अटलजी-महोदयस्य चित्रे पुष्पाञ्जलिम् अर्पयित्वा कृतः। अस्मिन् अवसरे प्रायः द्विलक्षकोटिरूप्यकमूल्यकानाम् औद्योगिक-परियोजनानां लोकार्पण-भूमिपूजनाभ्यां राज्ये प्रायः एक-लक्ष-त्रिनवतिसहस्र (१.९३ लक्ष) रोजगार-अवसराणां सृजनस्य सम्भावना विद्यते।

केन्द्रीयगृहमन्त्री अमितशाहः तथा मुख्यमंत्री डॉ. मोहन यादवः मध्यप्रदेश् ग्रोथ् समिट्-अन्तर्गतं स्थापितायाः प्रदर्शिन्याः अवलोकनं कृतवन्तौ। समिट्-अवसरे केन्द्रीय गृहमन्त्रीणा ग्वालियर-मेलायाः उद्घाटनं कृतं, तथा अटल-संग्रहालयस्य नवीनीकरण-कार्यम् अपि जनसामान्याय समर्पितम्। अस्मिन् समिट्-कार्यक्रमे प्रायः पञ्चविंशतिसहस्र लाभार्थिनः तथा सहस्रशः उद्यमिनः निवेशकाः च सहभागिनः सन्ति। अस्य कार्यक्रमस्य मुख्योद्देश्यं राज्ये निवेश-वर्धनं तथा औद्योगिक-विकासाय नूतना दिशा प्रदानं इति। कार्यक्रमे केन्द्रीय सञ्चारमन्त्री ज्योतिरादित्यः सिन्धिया, विधानसभाध्यक्षः नरेन्द्रसिंहः तोमरः, प्रदेशभाजपाध्यक्षः हेमन्तः खण्डेलवालः इत्यादयः अनेके वरिष्ठ-मन्त्रिणः जनप्रतिनिधयः च उपस्थिताः आसन्। अस्मिन् अवसरे अमितशाहः ज्योतिरादित्यं सिन्धियाम् “राजा-साहब” इति सम्बोधितवान्। मञ्चात् एतत् श्रुत्वा जनसमूहः प्रचुर-तालिकाभिः हर्षं व्यक्तवान्। अनन्तरं सः अवदत् यत् ग्वालियर-भूमिः साधारण-भूमिः नास्ति। एषा सा भूमिः यत्र तानसेन-महोदयस्य जन्म अभवत्, तथा ग्वालियर-परिवारस्य अनेके महान्तः सङ्गीतज्ञाः तपस्या-अनुष्ठानं कृतवन्तः। सः उक्तवान् यत् एषैव भूमिः अटल बिहारी वाजपेयी-सदृशं महान् नेतारं देशाय दत्तवती। अत्रैव संघर्षं कृत्वा अटलजी सम्पूर्ण-देशस्य स्नेह-पात्रं जातः।

अमितशाहः अवदत् यत् मध्यप्रदेशे देशस्य सर्वाधिकः आदिवासी-जनसंख्या निवसति। अटलजी-पूर्वं आदिवासि-कल्याणार्थं न काचित् प्रामाणिकयोजना आसीत्, न च पृथक् विभागः आसीत्, येन तेषां विकास-उत्थान-कार्यं सम्यक् साध्येत। अटल बिहारी वाजपेयी-महोदयेन आदिवासि-कल्याणार्थं पृथक् आदिवासी-विभागस्य गठनं कृत्वा तेषां अधिकाराः सुदृढीकृताः।

मुख्यमंत्री डॉ. मोहनयादवः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी-महोदयस्य मार्गदर्शनेन मध्यप्रदेश-सर्वकारः ‘विकसित-भारत’ लक्ष्यस्य प्राप्तये तथा देशं विश्वस्य तृतीय-सर्वाधिक-अर्थव्यवस्था-रूपेण स्थापयितुं महत्त्वपूर्णं योगदानं ददाति। राज्य-सर्वकारस्य मते अयं ग्रोथ् समिट् केवलं निवेश-प्रस्तावेषु औद्योगिक-घोषणासु च सीमितः नास्ति, अपि तु उद्योगः, नगरीय-विकासः, पर्यटनम्, सूक्ष्म-लघु-मध्यम-उद्योगाः (एम्.एस्.एम्.ई.), स्टार्टअप् तथा रोजगारः—एतान् सर्वान् एकत्र अग्रे नयितुं समग्र-दृष्टिं प्रस्तुतयति। अस्य समिट्-माध्यमेन मध्यप्रदेशस्य विकास-प्रारुपं नूतनेन व्यापक-दृष्टिकोणेन देशस्य विश्वस्य च समक्षं प्रस्तुत्यते।_____________________

हिन्दुस्थान समाचार / अंशु गुप्ता