Enter your Email Address to subscribe to our newsletters

भोपालम्, 25 दिसंबरमासः (हि.स.)। केन्द्रीयः गृह-एवं-सहकारिता-मन्त्री अमित-शाहः अद्य मध्यप्रदेशे प्रवासे स्थास्यति। सः बुधवासरस्य रात्रौ एव ग्वालियर-नगरं प्राप्तवान् आसीत्। केन्द्रीय-गृहमन्त्री शाहः अद्य भारतरत्न-पूर्व-प्रधानमन्त्री अटल-बिहारी-वाजपेयी-महोदयस्य जयन्त्यां ग्वालियर-नगरे तथा रीवा-नगरे आयोजितेषु कार्यक्रमेषु सहभागं करिष्यति। मुख्यमन्त्री डॉ. मोहन-यादवः बुधवासरस्य रात्रौ प्रायः ९:३० वादनसमये महाराजपुरा-स्थिते भारतीय-वायुसेना-विमानतले केन्द्रीय-गृहमन्त्रिणः अगवानीं कृतवान्। वायुसेना-विमानतले केन्द्रीय-सञ्चार-तथा-पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया, विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः, प्रदेशभारतीयजनतापक्षस्य अध्यक्षः हेमन्तखण्डेलवालः तथा अन्ये जनप्रतिनिधयः केन्द्रीयगृहमन्त्रिणः आत्मीयं स्वागतं कृतवन्तः।
ऐतिहासिके ग्वालियर-नगरे अद्य अटलबिहारीवाजपेयीमहोदयस्य जयन्त्यां ‘अभ्युदय मध्यप्रदेश – ग्रोथ-समिट्’ इति भव्यस्य कार्यक्रमस्य आयोजनं भवति। केन्द्रीय-गृहमन्त्री अमित-शाहस्य मुख्य-आतिथ्ये तथा मुख्यमन्त्रिणः विशेष-उपस्थितौ आयोजिता एषा समिट् ग्वालियर-नगरस्य लाडले सुपुत्रस्य अटल-जी-महोदयस्य विकासवादी-विचाराणां समर्पिता अस्ति। कार्यक्रमे निवेशकानां कृते सिंगल-क्लिक-प्रणाल्या औद्योगिक-प्रोत्साहन-राशिः अपि प्रदास्यते।‘अभ्युदय मध्यप्रदेश – ग्रोथ-समिट्’ मध्ये द्वौ-लक्ष-कोटि-रूप्यकाधिकानां निवेश-प्रस्तावानां कृते भूम्यावंटनं करिष्यते। तेन सह दश-सहस्र-कोटि-रूप्यकाधिकानां औद्योगिक-परियोजनानां भूमिपूजनं लोकार्पणं च सम्पन्नं भविष्यति।
अस्मिन् अवसरे रोजगार-प्रदानकारिणीनां औद्योगिक-एककानां स्थापना-सञ्चालनं कुर्वन्तः निवेशकाः सम्मानिताः करिष्यन्ते। ग्रोथ-समिट् मध्ये देशस्य प्रतिष्ठिताः उद्योगपतयः तथा औद्योगिक-संस्थाभ्यः प्रतिनिधयः सहभागी भविष्यन्ति। एतेषु गोदरेज-इण्डस्ट्रीज्, गौतम-सोलर्, हीडलबर्ग-सीमेण्ट्, एल्-एन-जे-भीलवाड़ा-समूहः, जे-के-टायर्, टोरेंट्-पावर्, मैकेन-फूड्, एलिक्सर्-इण्डस्ट्रीज्, ग्रीनको, जुपिटर्-वैगन्स्, डाबर्-इण्डिया, वर्धमान-समूहः, गोदरेज्-कञ्ज्यूमर्-प्रोडक्ट्स् तथा भारत-पेट्रोलियम्-कॉर्पोरेशन्-लिमिटेड् इत्यादीनां प्रमुख-औद्योगिक-समूहानां प्रतिनिधयः अन्तर्भविष्यन्ति।
‘अभ्युदय मध्यप्रदेश – ग्रोथ-समिट्’ इत्यस्य आरम्भः प्रातः ११:३० वादनसमये विशिष्ट-अतिथीनां अतिविशिष्ट-अतिथीनां च आगमनेन भविष्यति। अस्मिन् समिट् मध्ये केन्द्रीय-सञ्चार-तथा-पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया, विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः, राज्यमन्त्रिणः तथा अन्ये जनप्रतिनिधयः सहभागी भविष्यन्ति। केन्द्रीय-गृहमन्त्री शाहः ग्वालियर-नगरे प्रातः ११:३० वादनात् अपराह्णे २ वादनपर्यन्तं स्थास्यति। सः अत्र द्वौ मासौ यावत् प्रवर्तमाने ग्वालियरव्यापारमेलाकार्यक्रमस्य उद्घाटनम् अपि करिष्यति। तदनन्तरं सः रीवा-नगरं गमिष्यति।
रीवा-नगरे कृषक-सम्मेलने सहभागः, प्राकृतिक-कृषि-प्रकल्पस्य शुभारम्भश्च
केन्द्रीय-गृहमन्त्री अमितशाहः तथा मुख्यमन्त्री डॉ. मोहनयादवः रीवा-नगरे बसामन-मामा-गो-अभ्यारण्ये अपराह्णे ३ वादनात् आयोजिते कार्यक्रमे प्राकृतिक-कृषि-प्रकल्पस्य शुभारम्भं करिष्यतः। तदनन्तरं गो-अभ्यारण्यस्य समीपे आयोजिते विशाल-कृषक-सम्मेलने सहभागं करिष्यतः। केन्द्रीय-गृहमन्त्री शाहः कृषक-सम्मेलने निर्माण-कार्याणां लोकार्पणं भूमिपूजनं च कृत्वा विशालां जनसभां सम्बोधयिष्यति।
केन्द्रीय-गृहमन्त्री बसामन-मामा-गो-अभ्यारण्यस्य भ्रमणं कृत्वा गोवंश-सेवार्थं क्रियमाणानां प्रयत्नानां विषये अवगतिं प्राप्स्यति। तेन सह उद्यानिकी-कृष्यर्थं गो-अभ्यारण्ये विकसितस्य प्राकृतिक-तथा-जैविक-कृषि-प्रारूपस्य लोकार्पणं अपि करिष्यति। अस्मिन् प्रारूपे मध्ये जैविक-विध्या उत्पादिताः पौधाः, जैवविविधता-सम्बद्धाः षष्टिः प्रकाराः बीजानि तथा द्वादश प्रकाराः जैविक-खाद-कीटनाशकानां प्रदर्शनं करिष्यते। प्रवासस्य दौरान केन्द्रीय-गृहमन्त्री रीवा-नगरे देशस्य पूर्व-प्रधानमन्त्रिणः तथा भारतरत्नस्य श्रद्धेयस्य अटल-बिहारी-वाजपेयी-महोदयस्य प्रतिमायाः अनावरणम् अपि करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता