पश्चिम-बङ्गालस्य मुख्यमन्त्री ममताबनर्जी क्रिसमसपर्वणः शुभाशयाः अददात्
कोलकाता, 25 दिसंबरमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्री ममता-बनर्जी बुधवासरस्य रात्रौ क्रिसमस-पर्वणः अवसरे सामाजिक-माध्यम-मञ्चे ‘एक्स्’ इति स्थले जनेभ्यः शुभाशयाः अददात्। स्वस्य सन्देशे सा शान्तेः, प्रेम्णः तथा सौहार्दस्य च सन्देशं प्रदाय सर्
पश्चिम-बङ्गालस्य मुख्यमन्त्री ममताबनर्जी क्रिसमसपर्वणः शुभाशयाः अददात्


कोलकाता, 25 दिसंबरमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्री ममता-बनर्जी बुधवासरस्य रात्रौ क्रिसमस-पर्वणः अवसरे सामाजिक-माध्यम-मञ्चे ‘एक्स्’ इति स्थले जनेभ्यः शुभाशयाः अददात्। स्वस्य सन्देशे सा शान्तेः, प्रेम्णः तथा सौहार्दस्य च सन्देशं प्रदाय सर्वेभ्यः ‘मेरी-क्रिसमस्’ इति शुभाशयान् अर्पितवती।

मुख्यमन्त्री स्वसन्देशे लिखितवती—

“शान्तेः दीपः गृहे-गृहे आगच्छतु, प्रभुः हृदयेषु वसतु…”

एतस्मिन् अवसरे विशेषं कुर्वन्ती ममता-बनर्जी स्वयमेव रचितं स्वयमेव सङ्गीतबद्धं च नूतनं गीतमपि सार्वजनिकं कृतवती। सा अवदत् यत् अस्य गीतस्य स्वरदानं प्रसिद्धया गायिकया श्रीराधा-बन्द्योपाध्यायया कृतम् अस्ति। मुख्यमन्त्री अवदत् यत् क्रिसमसस्य पावने अवसरे सा एतत् गीतं सर्वैः सह सार्वजनिकं करोति, येन शान्तेः सद्भावस्य च सन्देशः गृहे-गृहे प्राप्नोति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता