Enter your Email Address to subscribe to our newsletters

काठमांडूनगरम्, 25 दिसंबरमासः (हि.स.)। कदाचित् कदाचित् एकं हृदयम् एव द्वयोः देशयोः सम्बन्धं संयोजयति। न मानचित्रस्य आवश्यकता भवति, न कूटनीतेः; केवलं मानवता एव पर्याप्ता भवति। एतादृशी मानवतायाः एव दृष्टान्ता अभवन् एका अनाथा नेपाली युवती, यस्याः उरसि अद्य एकस्य भारतीयनागरिकस्य हृदयम् स्पन्दते।
केरलराज्यस्य एर्नाकुलम्-जनपदे स्थिते सर्वकारीय-चिकित्सालये प्रथमवारं सफलतया हृदय-प्रत्यारोपणं कृतम्। एषा घटना न केवलं भारतस्य कृते महती चिकित्सकीय उपलब्धिः अस्ति, अपि तु नेपाल–भारतयोः भावनात्मक-सम्बन्धानां अपि दुर्लभः उदाहरणम् अस्ति।अस्मिन् हृदय-प्रत्यारोपण-प्रक्रियया नेपालदेशस्य सुर्खेत-जनपदस्य निवासी २१ वर्षीयाः नेपाली युवत्याः दुर्गा कामी इत्यस्याः नूतनं जीवनं प्राप्तम्। सा गतस्य अगस्त्-मासस्य अन्तिम-सप्ताहे उपचारार्थं केरलम् आगता आसीत्।
केरलराज्यस्य एव निवासी ४७ वर्षीयः ए. शिवु इति नामकः आसीत्। गतस्य नवम्बर्-मासे मार्ग-दुर्घटनायां सः गम्भीररूपेण आहतः अभवत्। कतिपयदिनानन्तरं चिकित्सकैः सः ‘मस्तिष्क-मृतः’ (ब्रेन-डेड्) इति घोषितः। एषः क्षणः तस्य परिवारस्य कृते अतिशय-शोकमयः आसीत्, किन्तु तस्मिन् दुःख-क्षणे एव तैः महत् मानवीयं निर्णयं कृतम्—शिवोः हृदय-दानं कर्तुम्। अपरतः, केरलराज्यस्य एव अन्यस्मिन् भागे दुर्गा जीवन-मरणयोः मध्ये संघर्षं कुर्वन्ती आसीत्। अनाथालये पालन-पोषणं प्राप्ता दुर्गा ‘कार्डियक् सार्कोइडोसिस्’ इति नामकस्य दुर्लभस्य गम्भीरस्य च हृदय-रोगस्य पीडिता आसीत्। तस्याः माता भगिनी च अस्यैव रोगेण दिवङ्गते स्तः, पिता च पूर्वमेव दिवङ्गतः आसीत्। हृदय-प्रत्यारोपणम् एव तस्याः अन्तिमा आशा आसीत्। उपचारार्थं सा प्रथमं लखनऊं ततः काठमाण्डूं गता, किन्तु एकस्य मलयाली-मित्रस्य उपदेशेन अन्ततः सा कोच्चि-नगरं प्राप्तवती।
केरल-राज्य-स्वास्थ्य-विभागेन सा ‘हृदय-दाता-सूच्यां’ प्राथमिकतया समाविष्टा कृता। न्यायालयस्य आदेशेन, स्वास्थ्य-मन्त्रालयस्य सक्रियतया, चिकित्सकानां समर्पणेन च, केवलं कतिपय-घण्टानाम् अन्तरे शिवोः हृदयम् दुर्गायै प्रत्यारोपयितुं निर्णयः सम्भवः अभवत्। कोच्चि-नगरात् प्रायः ११ किलोमीटर-दूरे हेलीकॉप्टर-यानस्य माध्यमेन शिवोः हृदयम् सुरक्षितरूपेण एर्नाकुलम्-जनपद-चिकित्सालयं नीतम्, यत्र अनुभवी-चिकित्सक-दलेन सफलं शल्यकर्म कृत्वा दुर्गायै नूतनं जीवनं प्रदत्तम्। दुर्गायाः भ्राता तिलकः चिकित्सालयं, चिकित्सकान्, केरल-सर्वकारं च प्रति कृतज्ञतां व्यक्तवान्। भावविवशः सः अवदत्—“दाता-परिवारं केरल-सर्वकारं च अहं हृदयतः धन्यवादं करोमि।” केरलराज्यस्य स्वास्थ्य-मन्त्री वीणा जॉर्ज अपि सामाजिक-माध्यमेषु चिकित्सकानां प्रशंसां कृत्वा उक्तवती यत् भारतदेशे प्रथमवारं जनपद-चिकित्सालय-स्तरे हृदय-प्रत्यारोपणं सम्पन्नम् इति।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता