अटलबिहारीवाजपेयीवर्यस्य जयंती-अवसरे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रप्रेरणास्थलस्य लोकार्पणं कृतवान्
लखनऊनगरम्, 25 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अत्र पूर्वप्रधानमन्त्री अटल बिहारी वाजपेयीवर्यस्य जन्मशताब्दी-महोत्सवस्य अवसरे राष्ट्रप्रेरणास्थलस्य लोकार्पणं कृतवान्। प्रदेशस्य राजधानी लखनऊ-नगरे वसन्तकुञ्ज-योजनायाः सेक्टर–जे
राष्ट्र प्रेरणा स्थल पर पुष्पांजलि अर्पित करते प्रधानमंत्री नरेन्द्र मोदी व अन्य नेता


लखनऊनगरम्, 25 दिसंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अत्र पूर्वप्रधानमन्त्री अटल बिहारी वाजपेयीवर्यस्य जन्मशताब्दी-महोत्सवस्य अवसरे राष्ट्रप्रेरणास्थलस्य लोकार्पणं कृतवान्। प्रदेशस्य राजधानी लखनऊ-नगरे वसन्तकुञ्ज-योजनायाः सेक्टर–जे इति क्षेत्रे पञ्चषष्ट्यधिक-एकड-परिमिते भूभागे विकसिते राष्ट्रप्रेरणास्थले डॉ. श्यामा-प्रसाद-मुखर्जी, पण्डितदीनदयाल-उपाध्याय तथा अटलबिहारी वाजपेयीजीति त्रयाणां महापुरुषाणां विशालकायाः प्रतिमाः प्रतिष्ठापिताः सन्ति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी जनसभाम् अपि सम्बोधितवान्।

लखनऊ-नगरे गोमती-नद्याः तीरे हरदोई-मार्गे निर्मितं राष्ट्रप्रेरणास्थलं पञ्चषष्ट्यधिक-एकड-परिमिते विस्तीर्णे क्षेत्रे अवस्थितम्। अस्मिन् प्रेरणास्थले त्रयाणां विभूतिनां कांस्य-प्रतिमाः प्रतिष्ठापिताः सन्ति, यासां प्रत्येकस्याः प्रतिमायाः ऊर्ध्वता पञ्चषष्टि-फुट्-परिमिता अस्ति। अस्मिन् अवसरे प्रधानमन्त्री मोदी एतेषां महापुरुषाणां जीवनचरित्र-आधारितस्य संग्रहालयस्य (म्यूजियमस्य) अपि लोकार्पणं कृतवान्। कमलाकृत्या निर्मितस्य अस्य संग्रहालयस्य प्रधानमन्त्री मोदी अन्यैः विशिष्टजनैः सह अवलोकनं कृतवान्।

अस्मिन् कार्यक्रमे रक्षामन्त्री तथा लखनऊ-लोकसभा-सांसदः राजनाथसिंहः, राज्यपालः आनन्दीबेन-पटेल्, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रीयवित्तराज्यमन्त्री तथा उत्तरप्रदेश-भाजपाध्यक्षः पङ्कजचौधरी, उपमुख्यमन्त्री द्वयम्—केशवप्रसाद-मौर्यः, ब्रजेश-पाठकः—इत्यादयः उत्तरप्रदेश-सर्वकारस्य अन्ये मन्त्रिणः नेतारश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता