(राष्ट्रप्रेरणास्थलस्य उद्घाटनम्) प्रधानमन्त्री मोदी महोदयस्य नेतृत्वेन भारतस्य अन्ताराष्ट्रियप्रतिष्ठा अधिका सुदृढा अभवत् - राजनाथसिंहः
लखनऊनगरम्, 25 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊनगरे अद्य आयोजिते राष्ट्रप्रेरणास्थलस्य लोकार्पणसमारोहे रक्षामन्त्री तथा क्षेत्रीयसांसदः राजनाथसिंहः उक्तवान् यत्, प्रधानमन्त्री नरेन्द्रमोदीमहोदयः अद्य सम्पूर्णे विश्वे भारतस्य गौरवं वर्
रक्षामंत्री राजनाथ सिंह


लखनऊनगरम्, 25 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊनगरे अद्य आयोजिते राष्ट्रप्रेरणास्थलस्य लोकार्पणसमारोहे रक्षामन्त्री तथा क्षेत्रीयसांसदः राजनाथसिंहः उक्तवान् यत्, प्रधानमन्त्री नरेन्द्रमोदीमहोदयः अद्य सम्पूर्णे विश्वे भारतस्य गौरवं वर्धयितुं कार्यं कुर्वन्ति। अधुना पर्यन्तं विश्वस्य एकोनत्रिंशत् (29) राष्ट्रैः प्रदत्तानि सर्वोच्चसम्मानपुरस्काराणि प्रधानमन्त्री मोदीमहोदयेन प्राप्तानि सन्ति। तेषां नेतृत्वेन भारतस्य प्रतिमा सम्पूर्णे विश्वे अधिका सुदृढा, सम्मानिता च अभवत्।

प्रधानमन्त्री नरेन्द्रमोदीमहोदयेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथेन सहितं बहूनां विशिष्टजनानां उपस्थितौ लखनऊनगरे निर्मितस्य राष्ट्रप्रेरणास्थलस्य लोकार्पणं कृतम्। अस्मिन् भव्ये समारोहे रक्षामन्त्री राजनाथसिंहः अवदत् यत्, गतानाम् एकादशवर्षाणां मध्ये प्रधानमन्त्री मोदीमहोदयस्य नीतिभिः मूल्यवृद्धिदरः न्यूनतां प्राप्तवान्, विकासौसतम् अष्टप्रतिशतं प्राप्तम्। अन्ताराष्ट्रिय मञ्चेषु भारतस्य वाणी अधिका सशक्ता जाता अस्ति। अधुना भारतं यदा किमपि वदति, तदा सम्पूर्णं विश्वं सावधानतया शृणोति यत् भारतं किं वदति।

राजनाथसिंहमहोदयः उक्तवान् यत्, अद्य अत्यन्तं महत्त्वपूर्णः अवसरः अस्ति, यतः लखनऊनगरे पूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी, पण्डितः दीनदयालः उपाध्यायः तथा पण्डितः श्यामाप्रसादमुखर्जी महोदयानां प्रतिमाभिः युक्तस्य राष्ट्रप्रेरणास्थलस्य लोकार्पणं सम्पन्नं जातम्। मोदीसर्वकारः “एकं भारतं श्रेष्ठं भारतम्” इति भावनया महापुरुषाणां सम्मानं, तेषां विरासतस्य संरक्षणं च कर्तुं अभियानं सञ्चालयति, अयं समारोहः तस्यैव अभियानस्य एकः महत्त्वपूर्णः अंशः अस्ति।

महापुरुषाणां वैचारिकप्रतिबद्धतानां उल्लेखं कुर्वन् रक्षामन्त्री अवदत् यत्, पण्डितः श्यामाप्रसादमुखर्जीमहोदयः भारतीयैक्यस्य अखण्डतायाश्च कृते स्वजीवनं समर्पितवान्। कश्मीरदेशे धारा 370 अपाकरणाय सः संघर्षं कृतवान्, यत् पश्चात् यशस्वी प्रधानमन्त्री नरेन्द्र मोदी महोदयेन अनुच्छेदः 370 अपाकृतः।

पण्डितः दीनदयालः उपाध्यायमहोदयः “एकात्म मानववादः” तथा “अन्त्योदयः” इति मन्त्रौ प्रदत्तवान्। तेन प्रतिपादितं यत् मनुष्यः केवलं धनेन न सुखी भवति, अपि तु मनसा, आत्मना, विचारैः च सुखं प्राप्नोति, आत्मनः परमात्मना सह ऐक्यं च आवश्यकम्।

लखनऊतः सांसदत्वेन कार्यं कृतवन्तं भारतरत्नम् अटलबिहारीवाजपेयी महोदयम् उल्लिख्य राजनाथसिंहः अवदत् यत्, लखनऊनिवासिनः अटलवर्यं सम्यग् जानन्ति, तेषां विनोदी स्वभावमपि परिचितम् अस्ति। स्वीयसंभाषणे सः अटलजेः पाकिस्तानयात्रायाः प्रसङ्गं स्मरन् अवदत् यत्, कदाचित् एका महिलापत्रकारः अटलजीं विवाहप्रस्तावं कृत्वा अवदत्— “यदि कश्मीरं दातव्यं स्यात्।” तदा अटलजीः स्वीयविनोदीभावेन प्रत्युत्तरं दत्तवान्— “स्वीकृतम्, किन्तु दहेजरूपेण सम्पूर्णः पाकिस्तानः दातव्यः।” रक्षामन्त्री राजनाथ सिंह महोदयः स्वीयभाषणे मनरेगा योजनायाः नामपरिवर्तनस्य उल्लेखं कृत्वा अवदत् यत्, पूर्वविधानस्य अन्तर्गतं बहवः दोषाः आसन्, अधुना ताः विसंगतयः संशोधिताः सन्ति, जनानां कृते 125 दिवसानां कार्यगारण्टी प्रदत्ता अस्ति, ग्रामेषु आधारभूत संरचनानां निर्माणं भविष्यति।

योगी आदित्यनाथस्य प्रशंसा

लखनऊतः सांसदः राजनाथसिंहः मुख्यमन्त्री योगी आदित्यनाथस्य प्रशंसां कृत्वा अवदत् यत्, तेषां नेतृत्वे एव एतत् भव्यं, भास्वरं च राष्ट्रप्रेरणास्थलं निर्मितम्। केन्द्रसर्वकारः राज्यसर्वकारश्च निरन्तरं देशस्य सामान्यजनस्य हितार्थं कार्यं कुर्वन्ति, सह एव अतीतस्य राष्ट्रनायकानां सम्मानं कुर्वन्ति।

अस्मिन् अवसरे सः पण्डितः मदनमोहनमालवीयस्य जयंतीं स्मृत्वा नमनं कृतवान्। रक्षामन्त्री महोदयः महापुरुषप्रतिमानां शिल्पकारं राम सुतार महोदयम् अपि सादरं नतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता