राष्ट्रपतिमहोदया संताली-भाषायां भारतस्य संविधानस्य लोकार्पणं कृतवती
नवदेहली, 25 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुमहोदया गुरुवासरे संताली-भाषायां भारतस्य संविधानस्य औपचारिकं लोकार्पणं कृतवती। एतत् संविधानं संताली-भाषायाः आल्चिकी-लिप्यां प्रकाशितम् अस्ति। अस्मिन् अवसरे राष्ट्रपतिभवने आयोजितं समारोहं सम्बो
राष्ट्रपति द्रौपदी मुर्मु, उपराष्ट्रपति सी. पी. राधाकृष्णन और केंद्रीय कानून एवं न्याय राज्य मंत्री अर्जुन राम मेघवाल गुरुवार को संताली भाषा में भारत के संविधान का औपचारिक लोकार्पण किया करते हुए


नवदेहली, 25 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुमहोदया गुरुवासरे संताली-भाषायां भारतस्य संविधानस्य औपचारिकं लोकार्पणं कृतवती। एतत् संविधानं संताली-भाषायाः आल्चिकी-लिप्यां प्रकाशितम् अस्ति। अस्मिन् अवसरे राष्ट्रपतिभवने आयोजितं समारोहं सम्बोधयन्ती राष्ट्रपतिः मुर्मु महोदया अवदत् यत् संताली-समुदायस्य कृते एषः गौरवस्य हर्षस्य च विषयः अस्ति, यत् अधुना भारतस्य संविधानं तेषां स्वकीयायां भाषायां लिप्यां च उपलब्धम् अस्ति। अनेन संताली-भाषाभाषिणः जनाः संविधानं साक्षात् पठितुं, अवगन्तुं च समर्थाः भविष्यन्ति। सा अवदत् यत् संविधानस्य मूलभावनायाः, तस्य अनुच्छेदानां च मातृभाषायां बोधनस्य अवसरः लोकतन्त्रं अधिकं सशक्तं करोति।

राष्ट्रपतिः अपि अवदत् यत् वर्षं 2025 आल्चिकी-लिपेः शताब्दी-वर्षत्वेन आचर्यते, तथा च एतादृशे महत्वपूर्णे वर्षे संविधानस्य आल्चिकी-लिप्यां प्रकाशनं अत्यन्तं प्रशंसनीयम् अस्ति। अस्य कृते सा केन्द्रीय-कानून-न्याय-मन्त्रीं तथा तस्य दलं प्रशंसितवती। स्वसम्बोधने राष्ट्रपतिः अवदत् यत् ओडिशा, झारखण्ड, पश्चिमबङ्गाल, असम तथा बिहार-राज्येषु निवसन्तः संताली-समाजस्य जनाः अधुना स्वमातृभाषायां स्वलिप्यां च लिखितेन संविधानद्वारा स्वाधिकारान् कर्तव्यांश्च अधिकं सम्यग् अवगन्तुं शक्नुवन्ति।

अस्मिन् समारोहे उपराष्ट्रपतिः सी. पी. राधाकृष्णनः, केन्द्रीय-विधिन्यायराज्यमन्त्री अर्जुनराममेघवालसहिताः अनेके गणमान्याः व्यक्तयः उपस्थिताः आसन्। उल्लेखनीयम् अस्ति यत् संताली-भाषा भारतस्य प्राचीनतमासु जीवितासु भाषासु एका अस्ति। एषा भाषा संविधानस्य द्विनवतितम-संशोधन-अधिनियमेन (2003) अष्टमी-अनुसूच्यां समाविष्टा अभवत्। एषा भाषा मुख्यतः झारखण्ड, ओडिशा, पश्चिमबङ्गाल तथा बिहार-राज्येषु बहुसंख्यकैः आदिवासी-समुदायैः भाष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता