सिन्धुः विश्व-बैडमिंटन-महासंघस्य क्रीडापटु-आयोगस्य अध्यक्षा अभवन्, परिषदः अपि सदस्या भविष्यति
नवदेहली, 25 दिसंबरमासः (हि.स.)। द्विवारम् ओलम्पिक-पदक-विजेत्री भारतीय बैडमिंटन-क्रीडापटुः पी.वी. सिन्धुः 2026–2029 कार्यकालाय विश्व-बैडमिंटन-महासंघस्य (बी.डब्ल्यू.एफ.) क्रीडापटु-आयोगस्य अध्यक्षा इति चयनिता अस्ति। अनया भूमिकया सह एव सिन्धुः बी.डब्ल
भारतीय बैडमिंटन खिलाड़ी पीवी सिंधु


नवदेहली, 25 दिसंबरमासः (हि.स.)। द्विवारम् ओलम्पिक-पदक-विजेत्री भारतीय बैडमिंटन-क्रीडापटुः पी.वी. सिन्धुः 2026–2029 कार्यकालाय विश्व-बैडमिंटन-महासंघस्य (बी.डब्ल्यू.एफ.) क्रीडापटु-आयोगस्य अध्यक्षा इति चयनिता अस्ति। अनया भूमिकया सह एव सिन्धुः बी.डब्ल्यू.एफ. परिषद् सदस्या अपि भविष्यति, येन विश्व-बैडमिंटनस्य नीतिनिर्माणे प्रशासनिक-प्रक्रियासु च क्रीडापटूनां स्वरः अधिकं सशक्तः भविष्यति।

अस्याः अतिरिक्तम्, हाङ्काङ्–चीन-देशस्य चान् हो यूएन् डैनियलः पैरा-बैडमिंटन-क्रीडापटु-आयोगस्य अध्यक्षा इति चयनितः अस्ति। सिन्धुः वर्ष 2017 तः बी.डब्ल्यू.एफ. क्रीडापटु-आयोगस्य सदस्या अस्ति, तथा च वर्ष 2020 तः बी.डब्ल्यू.एफ. इण्टेग्रिटी-अम्बैसडर् इति दायित्वम् अपि वहति। वर्ष 2019 विश्व-विजयिनी सिन्धुः स्वस्य दीर्घकालीन-अनुभवेन प्रभावशालिना व्यक्तित्वेन च एतत् महत्त्वपूर्णं उत्तरदायित्वं वहिष्यति।

अस्मिन् अवसरे सिन्धुः उक्तवती—“अहम् एतां भूमिकां गम्भीरया उत्तरदायित्व-भावनया उद्देश्येन च स्वीकुर्वे। क्रीडापटु-आयोगस्य अध्यक्षा रूपेण मम प्रमुखं लक्ष्यं एतत् भविष्यति यत् क्रीडापटूनां स्वरः सर्वेषु स्तरेषु स्पष्टतया, निरन्तरतया, सम्मानपूर्वकं च श्रूयेत। अहं एतां भूमिकां क्रीडापटूनां प्रशासनस्य च मध्ये सेतु-रूपेण पश्यामि। सह-क्रीडापटुभिः मयि दर्शितः विश्वासः मम कृते गौरवस्य विषयः अस्ति। पूर्व-अध्यक्षा ग्रेसिया पोली महोदया याः उत्कृष्टं कार्यं कृतवती, ताभ्यः अहं कृतज्ञतां ज्ञापयामि।” नीदरलैण्ड्स-देशस्य डेबोरा जिले्ले सन्धोः उपाध्यक्षा भविष्यति। दक्षिण-कोरिया-देशस्य एन से यंग, मिस्र-देशस्य दोहा हानी, तथा चीन-देशस्य जिया यी फैन अपि आयोगस्य अन्याः क्रीडापटु-प्रतिनिधयः सन्ति।

पैरा-बैडमिंटन-विभागे चान् हो यूएन् डैनियलः अस्य वर्षस्य आरम्भे अन्तरिम-अध्यक्षा रूपेण कार्यं कृतवान् आसीत्, अधुना सः एतां भूमिकां पूर्णकालिकरूपेण निर्वहिष्यति। द्विवारं पैरालिम्पिक-क्रीडासु भागं गृहीतवान् डब्ल्यू.एच्.२ श्रेणी-क्रीडापटुः चान् उक्तवान्—

“बी.डब्ल्यू.एफ. पैरा-क्रीडापटु-आयोगस्य अध्यक्षा इति चयनं मम कृते महान् सम्मानः अस्ति। एषा केवलं मम व्यक्तिगत-सिद्धिः न, अपि तु विश्वभरि पैरा-बैडमिंटन-क्रीडापटूनां परिश्रमस्य प्रगतिशील-यात्रायाः च मान्यता अपि अस्ति।”

डेन्मार्क्-देशस्य कैथरीन रोसेनग्रेन तस्याः उपाध्यक्षा भविष्यति। अमेरिका-देशस्य एमी बर्नेट, फ्रांस-देशस्य गुइयोम् गैली, भारतस्य अबू हुबैदा, तथा मिस्र-देशस्य तारेक अब्बास घरीब ज़हरी इति अन्ये आयोगस्य सदस्याः सन्ति।

अस्मिन् एव समये, ईरान-देशस्य सोराया अगाएई हाजी आगा, या टोक्यो 2020 ओलम्पिक-क्रीडासु ईरान-देशस्य प्रतिनिधित्वं कृत्वा प्रथम महिला बैडमिंटन-क्रीडापटुः आसीत्, सा अधुना अन्ताराष्ट्रिय-ओलम्पिक-समितेः क्रीडापटु-आयोगस्य पञ्च नवीन-सदस्यानां मध्ये समाविष्टा अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता