विकासात्मक अक्षमतावद्भ्यो बालेभ्यः सज्जः क्रीडाकूर्दन-क्राफ्ट-प्रतिभाप्रदर्शनेभ्यो मंचः
वाराणसी, 25 दिसम्बरमासः (हि. स.)। वाराणस्यां सी पी तथा विकासात्मक-अक्षमतायुक्तबालकानां कृते कार्यं कुर्वतः शौर्याफाउण्डेशन्-नाम्नः संस्थायाः द्वारा मदनमोहनमालवीयस्य जयन्त्याः अवसरतः वाराणस्याः सुसुवाही-प्रदेशस्थिते शौर्याएकेडेमी-प्राङ्गणे बालकानां
शौर्या फाउंडेशन के निदेशक अपनी बात रखते हुए


वाराणसी, 25 दिसम्बरमासः (हि. स.)।

वाराणस्यां सी पी तथा विकासात्मक-अक्षमतायुक्तबालकानां कृते कार्यं कुर्वतः शौर्याफाउण्डेशन्-नाम्नः संस्थायाः द्वारा मदनमोहनमालवीयस्य जयन्त्याः अवसरतः वाराणस्याः सुसुवाही-प्रदेशस्थिते शौर्याएकेडेमी-प्राङ्गणे बालकानां कृते क्रीडा, शिल्पकला, प्रतिभाप्रदर्शनायाः मंचः सज्जीकृतः।

शौर्याफाउण्डेशन इत्यस्य सप्तवर्षपरिपूर्तेः प्रसंगे आयोजिते अस्मिन् कार्यक्रमे निदेशकः डॉ अनिमेषकुमारः अवदत् यत् फाउण्डेशन्-मडुआडीह् सारनाथ् रामनगरम् वरुणातट-प्रदेशेषु स्थितानाम् अक्षम्बालकानां कृते एषः विशेषः आयोजनः कृतः। यस्मिन् बालकाः स्वीयां प्रस्तुतिं दत्त्वा मनोहरं प्रदर्शनम् अकुर्वन्। बालकान् समाजस्य मुख्यधारायां नयितुं तान् प्रतिभावन्तः कर्तुं च शौर्याफाउण्डेशन् निरन्तरं कार्यं करोतिएव।

कार्यक्रमे शौर्याफाउण्डेशनस्य पदाधिकारीणां सहितं हिमांशु विवेक नीता रितु राजन् स्नेहा पंकज् संजय उमेश इत्यादयः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार