Enter your Email Address to subscribe to our newsletters

—वर्षस्य अन्ते जायते अत्यधिके सम्मर्दे सति निर्णयः
वाराणसी, 25 दिसंबरमासः (हि.स.)।
समापनाभिमुखे संवत्सरे 2025 मध्ये श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनार्थं संजायमानां घनभीमां जनसंचारं दृष्ट्वा मन्दिरे 3 जनवरी 2026 पर्यन्तं स्पर्शदर्शननिषेधः कृतः। मन्दिरे प्रोटोकॉलदर्शनं सुगमदर्शनञ्च पूर्ववत् प्रवर्तिष्यते। एषा सूचना मन्दिरन्यासेन बुधवासरस्य सायं देरे प्रदत्ता। उक्तं च यत् संवत्सरस्य 2025 अन्ते नूतनवर्षारम्भे च सम्भाव्यमानस्य जनसामान्यस्य सुरक्षा-सुगमदर्शनार्थं स्पर्शदर्शनं निवारितम्।
मन्दिरन्यासस्य मतानुसारं 3 जनवरी दिने जनसञ्चारस्य मूल्याङ्कनं समीक्षा च भविष्यति। यदि जनसञ्चारः न्यूनो भवेत् तर्हि स्पर्शदर्शनव्यवस्था पुनः प्रारभ्यते। कालेन सह यथोचिताः आवश्यकनिर्णयाः भविष्यन्ति। अस्मिन् कालखण्डे पङ्क्तिबद्धैः भक्तैः झांकीदर्शनमेव लप्स्यते। मन्दिरन्यासेन भक्तेभ्यः नियमपालने सहयोगः कर्तव्य इति आह्वानं कृतं च—मन्दिरे दर्शनपूजनं श्रद्धायाः विषयः, न तु सुविधायााः प्रतिष्ठायाश्च।
अन्यतः जनसञ्चयं दृष्ट्वा मन्दिरस्य नन्दूफारिया मार्गे स्थायीपरिशोधनबिन्दुर्निर्मीयते। मन्दिरप्रशासनात् प्राप्तसूचनाः दर्शयन्ति यत् भक्तानां वर्धमानं समूहं सुरक्षाव्यवस्थां च दृष्ट्वा प्रवेशद्वारे लगेज्-परीक्षासंयंत्रमपि स्थाप्यते। वाराणस्यां वर्धमानशैत्ये पर्यटनऋतुः अपि प्रवर्तते। जनाः वाराणसीं विचरन्तः सह देवस्य विश्वनाथस्य मन्दिरे दर्शनपूजनार्थं बहुसंख्यये आगच्छन्ति।
---------------
हिन्दुस्थान समाचार