Enter your Email Address to subscribe to our newsletters

वेटिकन सिटी, 25 दिसंबरमासः (हि.स.)।
वेटिकन्-सिटि-नगर्यां क्रिस्मस्-पर्वणः महती धूमधाम दृश्यते। पोप् लियो चतुर्दशः क्रिस्मस्-पर्वस्य पूर्वसन्ध्यायां प्रदत्ते सन्देशे अवदत् यत् “एतत् दानस्य आशायाश्च उत्सवः।” प्रभोः जन्मनः पवित्रस्य क्रिस्मस्-मास्-उत्सवस्य हर्षं उद्घोष्य सः अवदत् यत् सर्वे जनाः क्रिस्मस्-पर्वं श्रद्धा-दान-आशा-रूपेण आचरन्तु।
वेटिकन्-वार्तावृत्तेः अनुसारं पोप् लियो नामकः सेण्ट्-पीटर्-बेसिलिकायां रात्रौ क्रिस्मस्-मास्-उत्सवस्य अध्यक्षतां कृत्वा चमक्कृततारं स्मृतवान्। सः अवदत् यद्“नवोद्गताऽग्निचिङ्गारीव आकाशं दीप्तयति।” सः अवदत् यत् प्रभुः सर्वत्र विद्यते। आकाशे टिमिटिमायमानम् एतत् तारा सर्वं तमः निवारयति। अस्याः ज्योतिषः प्रभावेन सम्पूर्णा मानवता नूतनस्य अनन्तस्य च जीवनस्य प्रातःकालं पश्यति।
पोप् लियो अवदत् यत् यीशोः आदर्शैः प्रेरणां गृह्णन्तः वयं एतत् प्रार्थयेमहि यत् सः अस्मान् सर्वभ्यः पापेभ्यः दोषेभ्यः च मोचयितुं शक्नुयात्। सः अवदत् यत् शिशूनां परिचर्यायां दिव्यताया: अनुभवः कर्तव्यः। तेनोक्तम्— “प्रभुः प्रत्येकस्मिन् मनुष्ये आत्मानं प्रकाशयति।”
पोपेन एतत् अपि सूचितम् यत् ईश्वरः सर्वस्य जनस्य अनन्तां गरिमां प्रकाशयति। सः अवदत्— “मसीहस्य हृदये प्रेमबन्धानाम् स्पन्दनं वर्तते। एषः बन्धः स्वर्गं भूमिं च, स्रष्टारं सृष्टिभिः सह च संयोजयति।” एतत् सत्यं ज्ञातव्यमिति सः अवदत्।
पोप् लियो अनेन अवसरे गतवर्षस्य उत्सवं अपि स्मृतवान्। सः अवदत्— यत् गतवर्षे अस्मिन्नेव दिने पोप् फ्रान्सिस्-नामकः जुबिली-वर्षारम्भस्य अवसर्ये सेंट्-पीटर्-बेसिलिकायाः पवित्रद्वारं उद्घाटितवान्।
अन्ते पोप् लियो सर्वेषां मध्ये क्रिस्मस्-पर्वस्य आनन्दं संविभाज्यते इति आह्वानं कृतवान्।
---------------
हिन्दुस्थान समाचार