क्रिसमसपर्वणि राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री सहितं देशस्य अनेके वरिष्ठ-नेतारः देशवासिभ्यः शान्तेः, करुणायाः, सौहार्दस्य च सन्देशं प्रेषितवन्तः
प्रधानमन्त्री दिल्ली-नगरे स्थिते कैथेड्रल-चर्च इत्यत्र आयोजितायां विशेषप्रार्थना-सभायां सहभागिताम् अकरोत्। नवदेहली, 25 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी. पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस-दलाध्यक्
प्रधानमंत्री नरेन्द्र मोदी ने गुरुवार को क्रिसमस पर दिल्ली के कैथेड्रल चर्च में विशेष प्रार्थना सभा में भाग लिया।


क्रिसमस पर दिल्ली के कैथेड्रल चर्च में प्रधानमंत्री मोदी।


प्रधानमन्त्री दिल्ली-नगरे स्थिते कैथेड्रल-चर्च इत्यत्र आयोजितायां विशेषप्रार्थना-सभायां सहभागिताम् अकरोत्।

नवदेहली, 25 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सी. पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्रमोदी, काङ्ग्रेस-दलाध्यक्षः मल्लिकार्जुन खरगे, लोकसभायां विपक्षनेता राहुलगांधी इत्यादयः सर्वे प्रमुखाः नेतारः गुरुवासरे क्रिसमस-पर्वणि प्रेमकरुणा-शान्ति-सेवा-राष्ट्रीयैक्यस्य सन्देशं प्रदाय देशवासिनः अभिनन्दितवन्तः। अस्मिन्नेव अवसरे प्रधानमन्त्री नरेन्द्र मोदी देहली-नगरे स्थितेषु प्राचीनतमेषु गिरिजागृहेषु एकस्मिन् कैथेड्रल-चर्चे आयोजितायां विशेषप्रार्थनासभायां सहभागितां कृत्वा देशवासिनां सुख-समृद्ध्यै कामनाम् अकरोत्।

राष्ट्रपतिः स्वस्य एक्स-पोस्टे अलिखत् यत् क्रिसमसस्य शुभावसरे सा सर्वान् देशवासिनः, विशेषतः ईसाई-भ्रातॄन् भगिनीश्च, हार्दिकाभिनन्दनैः अभिनन्दति। हर्षोल्लासपूर्णं एतत् पर्व प्रेम-करुणयोः सन्देशं ददाति तथा मानवताया हितार्थं प्रभु-ईसा-मसीहेन कृतस्य बलिदानस्य स्मरणं करोत्। सा समाजे शान्ति-सद्भाव-समानता-सेवाभावस्य सुदृढीकरणाय संकल्पं ग्रहीतुं प्रेरणाम् अदात्।

उपराष्ट्रपतिः सी. पी. राधाकृष्णन अपि सर्वेभ्यः क्रिसमसस्य शुभकामनाः प्रदाय आशा-प्रेम-दयालुताभिः परिपूर्णस्य उत्सवस्य कामनाम् अकरोत्। तेन उक्तं यत् प्रभुईसामसीहस्य सन्देशः अस्मान् सुदृढानां संवेदनशीलानां समुदायानां निर्माणाय तथा स्थायी-शान्त्यै प्रेरयतु। प्रधानमन्त्री नरेन्द्रमोदी देहली-नगरे स्थितं प्राचीनं भव्यं च कैथेड्रल-चर्चम् आगत्य तत्र आयोजितायां विशेष-प्रार्थना-सभायां सहभागितां अकरोत् तथा देशवासिनां सुख-समृद्ध्यै प्रार्थनां चकार। अस्मिन् अवसरॆ चर्चस्य पादरिभिः तस्य पुरतः प्रार्थनाः अपि कृताः।

प्रधानमन्त्रीणाऽपि एक्स-लेखे उक्तं यत् सः सर्वेभ्यः शान्ति-करुणा-आशाभिः परिपूर्णस्य क्रिसमसस्य हार्दिकाः शुभकामनाः ददाति। प्रभु-ईसा-मसीहस्य शिक्षाः अस्माकं समाजे सद्भावं अधिकं सुदृढं कुर्वन्तु, तथा एतत् पर्व दया-सद्भावनायाः प्रति सामूहिक-प्रतिबद्धतां नवजीवनं ददातु।

काङ्ग्रेस-दलाध्यक्षः मल्लिकार्जुन खरगे अपि सर्वान् नागरिकान् क्रिसमसस्य शुभकामनाभिः अभिनन्द्य अवदत् यत् प्रभु-ईसा-मसीहस्य जन्म एतत् पवित्रं पर्व प्रेम-करुणा-क्षमाशान्ति-ऐक्यादीनां शाश्वतानां मूल्यानां आत्मसात्-करणाय प्रेरयति। अयं अवसरः मानवीय-समरस-समाजस्य निर्माणाय सामूहिक-संकल्पं सुदृढं करोतु तथा सर्वेषां जीवने आशा-सुखसमृद्धिम् आनयतु।

लोकसभायां विपक्षनेता राहुलगांधी अपि सर्वेभ्यः क्रिसमसस्य अभिनन्दनं कृत्वा अवदत् यत् अयं कालः सर्वेषां जीवने आनन्दं सुखं समृद्धिं प्रेम करुणां च आनयतु। काङ्ग्रेस-महासचिवा प्रियङ्का गांधी अपि लिखितवती यत् प्रेम-करुणा-आशायाः सन्देशः सर्वान् मार्गदर्शयतु इति, तथा सर्वेभ्यः क्रिसमसस्य हार्दिकाः शुभकामनाः अदात्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता