नवी मुंबई इंटरनेशनल विमानपत्तनके उड्डयनानां संचालनं शुभारब्धं, पूर्वं विमानाय नमस्कारो विहितः
-इंडिगो एयरलाइन इत्यस्य फ्लाइट नवे मुंबईविमानपत्तनके वॉटर कैननद्वाया कृतं स्वागतम् नव दिल्‍ली, 25 दिसंबरमासः (हि.स)। नव-मुम्बई-अन्ताराष्ट्रिय-विमाननगरम् (एन एम आई ए) गुरुवासरप्रातःकालात् एव वाणिज्यिक-उड्डयन-संचालनाय समर्पितम्। अस्मिन् विमा
इंडिगो की फ्लाइट का नवी मुंबई एयरपोर्ट पर वॉटर कैनन से वेलकम किया गया


-इंडिगो एयरलाइन इत्यस्य फ्लाइट नवे मुंबईविमानपत्तनके वॉटर कैननद्वाया कृतं स्वागतम्

नव दिल्‍ली, 25 दिसंबरमासः (हि.स)।

नव-मुम्बई-अन्ताराष्ट्रिय-विमाननगरम् (एन एम आई ए) गुरुवासरप्रातःकालात् एव वाणिज्यिक-उड्डयन-संचालनाय समर्पितम्। अस्मिन् विमाननगरे प्रातः प्रथमं वाणिज्यिकं विमानम् अवतीर्णम्। एतत् विमानम् इंडिगो-एयरलाइन्स्-सम्बद्धम् आसीत् यस्य स्वागतं विमाननगरे जलतोरणेन कृतम्।

अधिकृतस्रोतभिः दत्तया सूचनया ज्ञापितं यत् नवी-मुम्बई-अन्तरराष्ट्रीय-विमाननगरे प्रथमं वाणिज्यिकं विमानम् अवतीर्णम्। इंडिगो-विमानसंस्थायाः विमानम् बेंगलुरु-नगरात् नवी-मुम्बईम् आगतः एतदेव अस्मिन् विमाननगरे प्रथमम् अवतरणम्। तस्य दृश्यफलकम् अपि प्रकाशितम्। अस्मिन् अवसरे अडाणी-समूहस्य अध्यक्षः गौतम-अडाणी अपि नवी-मुम्बई-अन्ताराष्ट्रिय-विमाननगरे उपस्थितः आसीत्।

नवी-मुम्बई-अन्ताराष्ट्रिय-विमाननगरे संचालनस्य आरम्भः केवलं मुम्बई-नगरस्य विमानउद्योगाय मीलकपत्ररूपेण नास्ति, किन्तु तेषां विमानयात्रिकाणामपि भावनात्मकक्षणम् आसीत् ये प्रथमदिने एव एतस्य विमाननगरे वाणिज्यिकसंचालनस्य इतिहासे भागिनः अभवन्।

प्रधानमन्त्रिणा नरेन्द्रमोदिना अष्टमे अक्टोबर्-मासे नवी-मुम्बई-अन्तरराष्ट्रीय-विमाननगरस्य उद्घाटनं कृतम्। महाराष्ट्रस्य नगर-औद्योगिक-विकास-निगमेन (सिड्को) 1997 तमे वर्षे प्रथमवारं मुम्बईस्य मुख्यविमाननगरेभ्यः पृथक् अस्य विमाननगरस्य परिकल्पना कृताभूत। सा परिकल्पना एकविंशतिवर्षानन्तरं साकाररूपा जात जब प्रधानमन्त्रिणा मोदिना 2018 तमे वर्षे अस्य विमाननगरस्य शिलान्यासः कृतः।

अडाणी-इण्टरप्राइजेस्-लिमिटेड्-सम्बद्धा सहयोगी-कम्पनी अडाणी-एयरपोर्ट्स्-होल्डिंग्स्-लिमिटेड् (ए ए एच एल) नाम्नी 2021 तमे वर्षात् हरितक्षेत्र-विमाननगरस्य विकासनिर्माणपरिचालनादीनां तयारीं कृतवती। एतत् विमाननगरं मुम्बई-नगरस्य नूतनं प्रवेशद्वारम् इति अपि कथ्यते। 2021 तमे वर्षात् अडाणी-इण्टरप्राइजेस्-लिमिटेड् (ए ई एल) इत्यस्य सहायक-कम्पनी ए ए एच एल एव अस्य विमाननगरस्य विकासं निर्माणं संचालनं च वहति।

उल्लेखनीयं यत् नवी-मुम्बई-अन्तरराष्ट्रीय-विमाननगरतः प्रारम्भकाले पञ्चदश देशीय-उड्डयानि भविष्यन्ति तथा प्रथमदिने एव नव भारतीय-नगराणि अस्मात् नूतनात् विमाननगरात् संयोजयिष्यन्ति, यस्याः अन्तर्गतं द्वादश-घण्टापर्यन्तं उड्डयानां संचालनं भविष्यति।

अस्य विमाननगरस्य प्रथमः चरणः 19,650 कोटि-रूप्यकाणां व्यये निर्मितः 1160 हेक्तेयर्-प्रदेशे विस्तृतः च अस्ति। तस्मिन् प्रथमचरणे एकं टर्मिनल् एकश्च रन्वे सन्ति, यस्य वार्षिकी यात्री-क्षमता 20 मिलियन् इति।

नवी-मुम्बई-विमाननगरस्य सर्वेषु पञ्चसु चरणेषु सम्पन्नेषु एतस्मात् विमाननगरात् कार्गो-टर्मिनल् बहु-परिवहनीय-संयोजनेन सह प्रति वर्षं नव-कोटि-यात्रिकान् संभालयितुं क्षमता भविष्यति।

---------------

हिन्दुस्थान समाचार