महामना मालवीयस्य जयंत्यां उपराष्ट्रपतिः, प्रधानमंत्री अन्ये च अददुः श्रद्धांजलिम्
नव दिल्ली, 25 दिसंबरमासः (हि.स.)। भारतरत्नस्य महामना पण्डितमदनमोहनमालवीयस्य षट्‌चत्वारिंशदधिकशतषष्टितम्या: (१६४) जयन्त्यां अवसरं प्रति उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाह, केन्द्रीयसड़कपरिवहन-राजमार्गमन्
महामना पंडित मदन मोहन मालवीय


नव दिल्ली, 25 दिसंबरमासः (हि.स.)।

भारतरत्नस्य महामना पण्डितमदनमोहनमालवीयस्य षट्‌चत्वारिंशदधिकशतषष्टितम्या: (१६४) जयन्त्यां अवसरं प्रति उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाह, केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी च भाजपा-कार्यकारीअध्यक्षः नितिन नबीन सहिताः अनेकाः नेता: एक्स इति सामाजिकसंज्ञामाध्यमे तं प्रति श्रद्धासुमनः अर्पितवन्तः। एतेषां नेतृणां मतानुसारं मालवीयस्य शिक्षाक्षेत्रे, पत्रकारितायां, सामाजिकसुधारे, स्वराज्यान्दोलने च योगदानं सर्वेषां प्रेरणास्रोतं भवति।

उपराष्ट्रपतिः सीपी राधाकृष्णन् अवदत् यन्महामनसः ज्ञानं, सामाजिकसुधारः, नैतिकनेतृत्वं च अस्मान् एतत् बोधयति यत् वास्तविकप्रगति: प्रबुद्धमस्तिष्कात् करुणामयहृदयाच्च आरभ्यते। तस्य आदर्शाः अनागतपीढीनां मार्गं निरन्तरं आलोकयिष्यन्ति।”

प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् “मालवीयजी देशस्य दास्यबन्धनानि भङ्क्तुं सामाजिकसुधारैः सह राष्ट्रीयचेतनां जागरितवन्तः। मातृभूमेः सेवायां समर्पितस्य महामनसः शिक्षाक्षेत्रे अतुलनीयम् योगदानं कदापि विस्मरणीयं न भविष्यति।”

गृहमन्त्री अमितशाह अवदत् यत् “बीएचयू-विश्वविद्यालयस्य संस्थापनया मालवीयजिना आधुनिकशिक्षा भारतीयसांस्कृतिकमूल्यैः सह योजिता, च प्रेस् राष्ट्रनिर्माणस्य साधनरूपेण प्रतिष्ठिता। अस्पृश्यताया: उन्मूलनाय कृषकहिताय च तस्य दृढसंकल्पः चिरस्मरणीयः।”

केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्री नितिनगडकरी अवदत् यद् “बीएचयू-संस्थापकः सन् मालवीयजी शिक्षां राष्ट्रस्य शक्तिरूपेण स्थापितवान्। तस्य जयन्त्यां तस्मै विनम्रं अभिवादनम्। तस्य योगदानं आधुनिकभारतात् शैक्षणिकनीवेः आधारभूतं वर्तते।”

भाजपायाः कार्यकारी अध्यक्षः नितिन नबीन अवदत्— “मालवीयस्य सम्पूर्णं जीवनं स्वराज्याय, सामाजिकसुधाराय, भारतीयसंस्कृतेः उत्कर्षाय च समर्पितम्। तस्य अद्वितीयं योगदानं भावीपीढीनां मार्गदर्शनं करिष्यति, तस्मै कोटिशः नमः।”

उल्लेखनीयम् यत् पण्डितमदनमोहनमालवीयस्य जन्म २५ डिसेम्बर १८६१ तमे वर्षे प्रयागराजे अभवत्, तस्य देहावसानं तु १२ नवेम्बर १९४६ तमे वर्षे अभवत्। सः १९१६ तमे वर्षे काशीस्थितं बनारस-हिन्दू-विश्वविद्यालयं स्थापयामास, यत् एशियायाः महान् आवासीयविश्वविद्यालयेषु गणितम्। पत्रकारिताक्षेत्रे सः १९०९ तमे वर्षे “लीडर”, १९१० तमे “मर्यादा”, १९२४ तमे “हिन्दुस्तान-टाइम्स” इत्येषां स्थापने प्रारम्भिकचरणेषु महत्त्वपूर्णां भूमिकां निर्वहत्। सः चत्वारि वाराणि भारतीयराष्ट्रियकांग्रेसस्य अध्यक्षः आसित्, वर्षे २०१५ तस्मै मरणोपरान्तं भारतरत्नं सर्वोच्चनागरिकसम्मानं प्रदत्तम्। अस्पृश्यताया: उन्मूलनाय, नारीशिक्षायै, किसानाधिकाराणां संवर्धनाय च तस्य प्रयासाः भारतीयसामाजिकपुनर्जागरणस्य प्रमुखाः अध्यायाः मन्यन्ते।

---

---------------

हिन्दुस्थान समाचार