Enter your Email Address to subscribe to our newsletters



—रात्रौ 12 वादने महागिरजायां विशेषपूजायां प्रभु ईसा मसीहस्य बाल स्वरूप दर्शनं कृत्वा मसीही आह्लादितः,मदीयपरतया क्रिसमसपर्वणः वर्धापनानि।
वाराणसी,25 दिसंबरमासः (हि.स.)।
उत्तरे प्रदेशस्य धार्मिकनगरी वाराणस्यां गुरुवासरे महापर्व क्रिस्मस इति मसीही-समुदायेनेव महानन्देन उत्साहेन च आचर्यते। मसीही-जनानां मध्ये प्रभोः ईशोः जन्मोत्सवस्य हर्षः सर्वत्र दृश्यते। नगरस्य प्रमुखेषु गिरिजाघरेषु यथा कैंटोनमेण्ट्-कैथेड्रल् महागिरिजा, लाल-चर्च्, गोदौलियास्थिते सेंट्-थोमस्-चर्च् च सहितेषु सर्वेषु गिरिजागृहेषु सह मसीही-समाजेन स्वगृहाणि अपि वधू-सदृशानि विरचितानि अलंकृतानि च। गृहेषु कैरोल-गीतानि निनदन्ति। गृहेषु क्रिस्मस्-वृक्षः सेंटाक्लॉज्-प्रतिमा ऊष्ट्रा: मेषाः हरिणाश्च यावत् वृक्षा-लताः च लोकानाम् आकर्षणभूताः जाता:।
तस्मात् पूर्वं परम्परानुसारं बुधवासर-रात्रौ एकादशवादनस्य अर्धात् (११.३०) प्रभोः ईसा-मसीहस्य जन्मात् पूर्वं कैंटोनमेण्ट्-कैथेड्रल् महागिरिजायां विशेषपूजा अर्थात् मिस्सा-बलिदान-क्रिया आचरिता। तत्र महागिरिजायाः पल्ली-पुरोहितैः पादरीभिः सह मिलित्वा मिस्सा-पूजा सम्पन्ना। तस्मिन् समये मसीही-समुदायस्य जनाः प्रभोः आराधनां विशेष-स्तुतिगानं च अविरतं कुर्वन्तः आसन्।
यदा रात्रेः द्वादशवादने एव समयसूच्याः सूच्यौ एकत्र अभवेताम् तदा बालरूपेण प्रतीकार्थं ईसा-मसीहस्य जन्मे सम्पन्ने महागिरिजायां वाराणसी-धर्मप्रान्तस्य बिशप् डॉ यूजीन् जोसेफ् इत्यनेन प्रभोः ईशोः प्रतीकात्मकं बालरूपं मसीही-समाजस्य जनानां दर्शनार्थं उपस्थापितम्। ततः अनन्तरं विशिष्टैः जनैः सह शोभायात्रा कृत्वा नवजातस्य ईसा-मसीहस्य प्रतिमा गिरिजाघरात् चरनीं प्रति स्थानान्तरिता स्थापिता चाभूत्। चरनीस्य अभिषेकानन्तरं मसीही-जनाः कतारया स्थित्वा प्रभोः दर्शनं कुर्वन्तः अभवन्। प्रभोः बालरूपं दृष्ट्वा ते सर्वे आह्लादिताः सन्तोषिताश्च अभवन्।
अस्य विशेषपूजायाः कृते मसीही-जनाः कोहरेण आवृते शीतले हवेयम् मध्ये अपि नूतनवस्त्राणि धारयित्वा सायं सप्तवादनात् एव कैंटोनमेण्ट्-स्थितं सेंट्-मेरीज्-महागिरिजाघरं प्रति प्रस्थिताः। रात्रे नौ-वादनसमये सम्पूर्णं कैंटोनमेण्ट्-प्रदेशं जनसमूहैः पूर्णम् अभवत्। महागिरिजा-प्राङ्गणे सर्वत: प्रभोः ईशोः जीवनाधारिताः झाङ्क्याः जन्मचरनी च दृष्ट्वा जनाः आनन्दिताः अभवन्।
अर्धरात्रे प्रार्थनासभायां भागं कृत्वा जनाः परस्परं “मेरी क्रिस्मस्” “हैप्पी क्रिस्मस्” इति शुभकामनाः दातुं आरब्धवन्तः। कतिपयस्थानेषु प्रभोः ईशोः जन्मदिनस्य केक् अपि छित्तः। मसीही-बस्तिषु क्रिस्मस्-रात्रौ बोन्-फायर-उत्सवः इत्यपि अभवत्।
क्रिस्मस्-पर्वणि सेंट्-पॉल्-चर्च् सिगरा, सी एन आइ-चर्च् तेलियाबाग्, रामकटोरा, बेथेल्-फुल्-गॉस्पेल्-चर्च् महमूरगञ्जादिषु स्थलेषु प्रभोः ईशोः जन्मसम्बन्धिनी विशेष-सायं-प्रार्थनाः अभवन्। सिगरा-स्थित-क्रिश्चियन-कॉलोनीत: आरभ्य नदेसर्, मिण्ट्-हाउस्, कैंटोनमेण्ट्, ककरमत्ता, न्यू-कॉलोनी, डी एल डब्ल्यू, बी एच यू इत्यादिषु क्षेत्रेषु क्रिस्मस्-पर्वणो हर्षोल्लासः सर्वत्र प्रसरितः अवभासितश्च।
---------------
हिन्दुस्थान समाचार