भारतीयजनतादलस्य कार्यकारी अध्यक्षः नितिननबीनः बङ्गला साहिब् गुरुद्वारे नमनं कृतवान्
नवदेहली, 26 दिसंबरमासः (हि.स.)। भारतीयजनतादलस्य राष्ट्रीय कार्यकारी अध्यक्षः नितिननबीनः शुक्रवासरे ‘वीर बाल दिवसः'' इत्यस्य अवसरे दिल्ली-स्थिते बङ्गला साहिब् गुरुद्वारे मस्तकं नतवान्, गुरु-साहिबस्य चरणेषु च अरदासम् अकरोत्। तेन सह दिल्ली-भाजपाध्यक्ष
भाजपा के कार्यकारी अध्यक्ष नितिन नबीन ने  बंगला साहिब गुरुद्वारा  में टेका मत्था


नवदेहली, 26 दिसंबरमासः (हि.स.)। भारतीयजनतादलस्य राष्ट्रीय कार्यकारी अध्यक्षः नितिननबीनः शुक्रवासरे ‘वीर बाल दिवसः' इत्यस्य अवसरे दिल्ली-स्थिते बङ्गला साहिब् गुरुद्वारे मस्तकं नतवान्, गुरु-साहिबस्य चरणेषु च अरदासम् अकरोत्। तेन सह दिल्ली-भाजपाध्यक्षः वीरेन्द्रसचदेवा तथा दिल्ली-सर्वकारे मन्त्री मञ्जिन्दर् सिंह् सिरसा अपि उपस्थितौ आस्ताम्।

अस्मिन् अवसरे माध्यमैः सह संवादे सः अवदत् यत् दशमस्य गुरोः गुरु गोबिन्द् सिंह् जी-महाराजस्य साहिबजादाः अल्पवयस्यामेव धर्मरक्षणार्थं यत् सर्वोच्चं बलिदानं दत्तवन्तः, तत् युगानुयुगं देशं समाजं च कर्तव्यस्य, साहसस्य, त्यागस्य च मार्गे अग्रसरं करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता