साहिबजादानां त्यागः शौर्यं च देशवासिनां कृते सदैव प्रेरणास्रोतः — उपमुख्यमन्त्री शुक्लः
- उप मुख्यमंत्री ने ‘वीर बाल दिवस’ पर वीर साहिबजादों को दी श्रद्धांजलि भोपालम्, 26 दिसम्बरमासः (हि.स.) । मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः शुक्रवासरे “वीर-बाल-दिवस”स्य अवसरे सिखपन्थस्य दशमगुरोः श्रीगुरुगोबिन्दसिंहमहाराजस्य वीर-साहिबजा
उप मुख्यमंत्री राजेन्द्र शुक्ल ने ‘वीर बाल दिवस’ पर वीर साहिबज़ादों को दी श्रद्धांजलि


- उप मुख्यमंत्री ने ‘वीर बाल दिवस’ पर वीर साहिबजादों को दी श्रद्धांजलि

भोपालम्, 26 दिसम्बरमासः (हि.स.) । मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रः शुक्लः शुक्रवासरे “वीर-बाल-दिवस”स्य अवसरे सिखपन्थस्य दशमगुरोः श्रीगुरुगोबिन्दसिंहमहाराजस्य वीर-साहिबजादान् प्रति कोटि-कोटिशः नमनम् अकरोत्।

उपमुख्यमन्त्री शुक्लः अवदत् यत् धर्मस्य, सत्यस्य, न्यायस्य तथा सनातन-संस्कृतेः रक्षणार्थं साहिबजादैः यत् अमरं बलिदानं दत्तं, तत् युगानुयुगं जनमानसे राष्ट्रभक्तेः भावनां प्रबलं करिष्यति। सः अपि अवदत् यत् साहिबजादानां त्यागः शौर्यं च देशवासिनां कृते सदैव प्रेरणास्रोतः भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani