Enter your Email Address to subscribe to our newsletters

अगरतलाम्, 26 दिसम्बरमासः (हि.स.)। त्रिपुरा-विधानसभायाः पूर्वाध्यक्षः विश्वबन्धुः सेनः शुक्रवासरे प्रातःकाले बेङ्गलूरु-नगरे स्थिते एकस्मिन् निजी-चिकित्सालये दिवंगतः। सः दीर्घकालम् अस्वस्थः आसीत् तथा गतकानि कतिपयानि मासानि तत्रैव उपचाराधीनः आसीत्। तस्य निधनसमाचारात् समग्रे राज्ये शोकतरङ्गा प्रवृत्ता।
विश्वबन्धोः सेनस्य पार्थिवशरीरं शनिवासरे बेङ्गलूरुतः अगरतलानगरं नीयते। राज्यसर्वर्कारेण तस्य निधनं प्रति 26 दिसम्बरात् (शुक्रवासरात्) 28 दिसम्बरपर्यन्तं त्रिदिनात्मकः राजकीयशोकः घोषितः। अस्मिन् कालावधौ समग्रे राज्ये राष्ट्रध्वजः अर्धनमितः भविष्यति। तस्य अन्त्येष्टिः राजकीयसम्मानेन कारयिष्यते। शोकसंकेतस्वरूपं राज्यसर्वर्कारेण शुक्रवासरे सर्वाणि शैक्षणिकसंस्थानानि पिधानानि भवितव्यानि इति निर्देशोऽपि निर्गतः।
प्रधानमन्त्री नरेन्द्रमोदी त्रिपुरा-विधानसभायाः पूर्वाध्यक्षस्य निधनं प्रति गाढं शोकं व्यक्तवान्। ‘एक्स’ माध्यमे निर्गते सन्देशे प्रधानमन्त्रीणा उक्तं यत् विश्वबन्धोः सेनस्य निधनवार्तया सः अत्यन्तं दुःखितः अस्ति, तथा त्रिपुराराज्यस्य विकासाय विविधेषु सामाजिकक्षेत्रेषु तेन कृतं योगदानं सदा स्मरणीयं भविष्यति। शोकसन्तप्तपरिवारं समर्थकांश्च प्रति संवेदनां प्रकटयन् सः दिवंगतात्मनः शान्तिं कामितवान्।
त्रिपुराराज्यस्य मुख्यमन्त्री प्राध्यापकः (डा.) माणिक साहा अपि तस्य निधनं प्रति गाढं शोकं प्रकटितवान्। सामाजिकमाध्यमेषु स्वसन्देशे मुख्यमन्त्रीणा उक्तं यत् विश्वबन्धोः सेनस्य अकालमरणं राज्यवासिनां कृते अपूरणीयक्षतिः अस्ति। सः शोकाकुलपरिवारजनान् अनुयायिनश्च प्रति संवेदनां व्यक्त्वा ईश्वरात् दिवंगतात्मनः सद्गतिं तथा परिजनानां कृते अस्मिन् कठिनकाले धैर्यशक्तेः प्रदाने प्रार्थनां कृतवान्।
विपक्षनेता तथा सीपीआई(एम) दलस्य नेता जितेन्द्रः चौधुरी अपि विश्वबन्धोः सेनस्य निधनं प्रति गाढं शोकं व्यक्तवान्। सः अवदत् यत् विश्वबन्धुः सेनः संसदीयलोकतन्त्रस्य विधानसभायाश्च गरिमां रक्षितुं समर्पितः व्यक्तित्वः आसीत्। तस्य निधनात् राज्यस्य राजनीतिकजगत् अपूरणीयां क्षतिं अनुभूयति। सः अपि शोकसन्तप्तपरिवारं प्रति संवेदनां प्रकटितवान्।
उल्लेखनीयम् अस्ति यत् विश्वबन्धु-सेनः स्वस्य राजनीतिकजीवनस्य आरम्भं काँग्रेस्-दलात् कृतवान्। अनन्तरं सः भारतीयजनतादले सम्मिलितः अभवत् तथा 21 जून् 2018 दिवसे त्रिपुरा-विधानसभायाः एकादशः अध्यक्षः इति पदभारं स्वीकृतवान्। उत्तर-त्रिपुरायाः धर्मनगर-विधानसभाक्षेत्रात् चतुर्वारं विधायकरूपेण निर्वाचितः विश्वबन्धु- सेनः स्वस्य प्रशासकीयदक्षतया, शान्तस्वभावेन तथा संसदीयपरम्पराणां संरक्षणार्थं दृढभूमिकया विशेषतया प्रसिद्धः आसीत्। तस्य निधनं त्रिपुराराज्यस्य राजनीतये तथा विधानसभायाः कार्यप्रणाल्यै अपूरणीयक्षतिरूपेण मन्यते। विविधैः राजनीतिकदलैः संघटनैश्च तस्य निधनं प्रति प्रगाढः शोकः व्यक्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani