छत्तीसगढस्य बलौदाबाजार-भाटापारा ज़िल्लायाः युवराज साहूः ग्राफ्टेडरक्तांगस्य कृष्या अर्जयति लक्षं रुप्यकाणि
-रोगस्य प्रकोपगतया न्यूनतया सह उत्पादनमपि अधिकम् रायपुरम् 26 दिसंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य बलौदाबाज़ार-भाटापारा-जिल्लायां स्थितः कृषकः युवराजः साहू नामकः ग्राफ्टेडरंक्तांगस्य कृषेण लक्षं रूप्यकान् अर्जयति। अस्यां जिल्लायां शाक-कृषेः उत्
ग्राफ्टेड टमाटर की खेती करता युवराज साहू


-रोगस्य प्रकोपगतया न्यूनतया सह उत्पादनमपि अधिकम्

रायपुरम् 26 दिसंबरमासः (हि.स.)।

छत्तीसगढ़राज्यस्य बलौदाबाज़ार-भाटापारा-जिल्लायां स्थितः कृषकः युवराजः साहू नामकः ग्राफ्टेडरंक्तांगस्य कृषेण लक्षं रूप्यकान् अर्जयति। अस्यां जिल्लायां शाक-कृषेः उत्तमाः परिणामाः दृश्यन्ते। भाटापारा-विकासखण्डस्य कृषकः युवराजः साहू ग्राफ्टेडरंक्तांगस्य कृषिं कृत्वा एकस्मिन् ऋतौ प्रति एकरं समासन्नत्रिलक्षरूप्यकपर्यन्तं शुद्धलाभं प्राप्तवान्।

रंक्तांगस्य ग्राफ्टिंग इति पद्धतिः पादपानाम् उत्पत्तिवर्धनाय मूलप्रणाली-संबद्धरोगविकाराणां च जोखिमं न्यूनयितुम् एकं श्रेष्ठं साधनम् अस्ति। एतया पद्धत्याः उपयोगेन पादपाः आधिक्येन दृढा भवन्ति, उत्पन्नं वर्धते, मूलानां उपरिभागस्य गलनसमस्या अपि निवार्यते।

अल्पोदकव्ययः श्रमव्ययश्च न्यूनः—

युवराजः साहू अवदत् यत् पूर्वं सः पारम्परिक-पद्धत्या रक्तांगस्य कृषिं करोति स्म, तदा पादपानां शोषणसमस्या रोगप्रसङ्गश्च जायेताम्, येन महान् नाशः अपि अभवत्। उद्यानिकी-विभागेन कृषकान् नूतन-प्रयुक्त्या संयोज्य शाकोत्पादनवृद्धौ यः प्रयासः कृतः सः सफलः अभवत्। ग्राफ्टेडरक्तांगे रोगप्रकोपः सामान्यकृषेः तुलनया न्यूनः दृश्यते। अस्याम् विधौ त्रिषु ऋतुषु उत्पादनस्य लाभः लभ्यते। अल्पोदकव्ययेन अल्पश्रमव्ययेन च कार्यं सम्पद्यते। पादपाः दृढा भवन्ति, अतः उत्पादनवृद्धिः जाता, येन कृषकानाम् आर्थिकलाभः वर्धितः।

वर्षे २ तः ३ वारं रक्ताङ्गस्य उत्पादनम

कृषकः अवदत् यद् अस्य ग्राफ्टेड्-पद्धत्या उत्पादितस्य टमाटरस्य कृषिः वर्षे द्विवारं त्रिवारं वा कर्तुं शक्या। इदं रक्ताङ्गं सामान्य-रंक्तांगवत् एव अस्ति, अस्य उपयोगः शाक-व्यञ्जनेषु व्यापकरूपेण भवति। राष्ट्रिय-कृषि-विकास-योजना-अन्तर्गतं कृषकानां कृते उद्यानिकी-विभागेन प्रति-प्रदर्शनं त्रिंशत्सहस्र-रूप्यक-परिमितं अनुदानं प्रदीयते। विभागेन अस्मिन् जिल्लायां १८८ कृषकाणां चयनं कृतम्, तेभ्यः एषा योजनालाभः प्रदत्तः।

---------------

हिन्दुस्थान समाचार