Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 26 दिसंबरमासः (हि.स)।
केंद्रीयोपभोक्तृखाद्य सार्वजनिकवितरणमन्त्री प्रह्लादजोशिना उपभोक्तृसुरक्षां उत्पादगुणवत्तिं च वर्धयितुं धूपिकानां कृते भारतीयमानकस्य नवमानकं प्रकाशितम्। उपभोक्तृकार्यखाद्यसार्वजनिकवितरणमन्त्रालयेन शुक्रवासरे निष्पादिते वक्तव्ये उक्तं यत् प्रह्लादजोशिना नूतनं भारतीयमानकम् आईएस १९४१२ २०२५ इति धूपिकानां कृते नूतनदिल्लीस्थे भारतमण्डपे राष्ट्रियोपभोक्तृदिने प्रकाशितम्।
मन्त्रालायेन प्रोक्तं यत् धूपिकानां कृते प्रकाशितं आईएस १९४१२ २०२५ इति विशिष्टीकरणनामकं मानकं भारतीयमानकब्यूरो नाम संस्थया विकसितम्। अस्य उद्देश्यः उपभोक्तृसुरक्षां गृहान्तरवायुगुणवत्तां च उत्पादगुणवत्तिं च उन्नतिं नेतुमस्ति। नूतनेषु अधिसूचितेषु मानकेषु धूपिकासु केषुचित् कीटहनित्रद्रव्येषु कृत्रिमगन्धद्रव्येषु च उपयोगः निषिद्धः कृतः यतो हि ते मानवस्वास्थ्याय गृहान्तरवायुगुणवत्तायै पर्यावरणाय च हानिकारकाः स्युः।
एतस्मात्कारणात् भारतीयमानके आईएस १९४१२ २०२५ इति धूपिकासु उपयोज्यानां निषिद्धद्रव्याणां नामावली निर्दिष्टा अस्ति। तत्र एलेथ्रिन परमेथ्रिन सायपरमेथ्रिन डेल्टामेथ्रिन फिप्रोनिल इत्येवं केचन कीटहनित्रद्रव्याणि तथा बेंजैल्सायनाइड एथिलएक्रिलेट डाइफेनिलामाइन इत्येते कृत्रिमगन्धद्रव्याणि सम्मिलितानि सन्ति। एतेषां बहूनां द्रव्याणां मानवस्वास्थ्यगृहान्तरवायुपर्यावरणरक्षणादिषु संभावितहानिकारकप्रभावानुसारेण अन्ताराष्ट्रियस्तरे अपि प्रतिबन्धः कृतः अस्ति।
अस्य मानकस्य अनुरूपम् उत्पादनानि बीआईएस मानकचिह्नं प्राप्नुयुः येन उपभोक्तारः विचारपूर्वकनिर्णयं कर्तुं शक्नुवन्ति। धूपिकानां कृते प्रकाशितस्य आईएस १९४१२ २०२५ इत्यस्य अधिसूचनया उपभोक्तॄणां विश्वासवृद्धिः नैतिकसततिनिर्माणप्रक्रियाणां प्रोत्साहनं परम्परागतजीविकासंरक्षणं च भविष्यति तथा भारतीयधूपिकाउत्पादनां वैश्विकापणे अधिकप्रवेशः अपि अपेक्ष्यते। एतत् मानकं बीआईएस संस्थायाः गन्धरसविभागसमित्या पीसीडी १८ नाम्ना हितधारकपरामर्शैः सह निर्मितम्।
उल्लेखनीयम् यत् भारतदेशः विश्वे धूपिकानां श्रेष्ठतमः उत्पादकः निर्यातकश्च अस्ति। अस्य उद्योगस्य वार्षिकमान्यमूल्यं प्रायेण अष्टसहस्रकोटिरूप्यकपरिमितम्। तस्मात् प्रायेण एकसहस्रद्विशतकोटीरूप्यकपर्यन्तं निर्यातः शताधिकेषु पञ्चाशदधिकेषु वा देशेषु क्रियते। अयं क्षेत्रः कारिगराणां लघुमध्यमसूक्ष्मउद्यमिनां विशेषतया स्त्रीणां कृते ग्रामअर्धनगरीमप्रदेशेषु महत्वपूर्णजीविकासंधीः प्रददाति।
---------------
हिन्दुस्थान समाचार