वार्षिकी २०२५ : क्रीडा-अवसंरचना तथा क्रीडा-प्रदर्शने देशे अग्रणी राज्यरूपेण मध्यप्रदेशः उद्भूतः
भोपालम्, 26 दिसंबरमासः (हि.स.)। मध्यप्रदेशः वर्षे २०२५ क्रीडाक्षेत्रे ऐतिहासिकं वर्षरूपेण अभवत्। अस्मिन् वर्षे राज्येन राष्ट्रियस्तरे उत्कृष्टं क्रीडाप्रदर्शनं कृतम्, अपि च क्रीडापरिसराणां, प्रशिक्षणव्यवस्थायाः तथा आधारभूत-अवसंरचनायाः क्षेत्रे देशे
मप्र में खेल का विस्‍तार 2025


भोपालम्, 26 दिसंबरमासः (हि.स.)। मध्यप्रदेशः वर्षे २०२५ क्रीडाक्षेत्रे ऐतिहासिकं वर्षरूपेण अभवत्। अस्मिन् वर्षे राज्येन राष्ट्रियस्तरे उत्कृष्टं क्रीडाप्रदर्शनं कृतम्, अपि च क्रीडापरिसराणां, प्रशिक्षणव्यवस्थायाः तथा आधारभूत-अवसंरचनायाः क्षेत्रे देशे अग्रणी स्थानं प्राप्तम्। क्रीडानां विकासस्य मुख्यधारायां समावेशनार्थं राज्य-सर्वकारस्य नीतिः तथा तस्य प्रभावी कार्यान्वयनस्य परिणामरूपेण अद्य मध्यप्रदेशः भारतस्य शीघ्रं उदीयमानानां क्रीडा-राज्यानां मध्ये गण्यमानः अस्ति।

क्रीडा-अवसंरचनायाम् अभूतपूर्वः विस्तारः

वर्षे २०२५ मध्यप्रदेशे क्रीडा-अवसंरचनायाः क्षेत्रे अनेकाः कीर्तयः स्थापिताः, येन सः राज्यः देशे विशिष्टां अभिज्ञानं प्राप्तवान्। वर्तमानकाले प्रदेशे द्वाविंशतिः अधिकाः यष्टीक्रीडायाः एस्ट्रोटर्फ-प्रांगणानि उपलब्धानि सन्ति, यानि देशस्य अन्येषां सर्वेषां राज्येभ्यः अधिकानि सन्ति। एतेन यष्टी-क्रीडाक्षेत्रे मध्यप्रदेशः एकः सुदृढः केन्द्ररूपेण उद्भूतः अस्ति।एवमेव प्रदेशे पञ्चदशाधिकाः आधुनिकाः एथलेटिक्स्-पथिनः विकसिताः सन्ति। एतेषु पथेषु क्रीडकेभ्यः अन्तर्राष्ट्रीय-मानकानुसारं अभ्यासस्य सुविधा लभ्यते। क्रीडा-विशेषज्ञः जुगल-किशोरः मन्यते यत् एषः आधारभूत-प्रारूप भविष्ये ओलम्पिक्-एशियन-गेम्स्-स्तरीयानां क्रीडकानां निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

अष्टादश उत्कृष्टता-एकेडमीः प्रतिभायाः पालिका

मध्यप्रदेशे सञ्चालिताः अष्टादश उत्कृष्टता-एकेडमीः वर्षे २०२५ सर्वासु प्रमुखासु उपलब्धिषु गण्यमानाः सन्ति। एतासु एकेडमीषु क्रीडकेभ्यः निःशुल्कं निवासः, भोजनं, शिक्षा, क्रीडा-सामग्री, चिकित्सकीय-सहायता तथा अनुभवी-प्रशिक्षकैः प्रशिक्षणं च प्रदीयते। एताभ्यः एकेडमीभ्यः सिद्धाः क्रीडकाः राष्ट्रिय-प्रतियोगितासु निरन्तरं पदकानि प्राप्य प्रदेशस्य नाम उज्ज्वलयन्ति। क्रीडा-विभागस्य कथनानुसारं वर्षे २०२५ एताभिः एकेडमीभिः सम्बद्धाः शताधिकाः क्रीडकाः राष्ट्रियस्तरीय-प्रतियोगितासु भागं गृहीत्वा उल्लेखनीयां सफलतां प्राप्तवन्तः।

“एकः जनपदः–एकं क्रीडा-संकुलम्” योजनया परिवर्तनम्

राज्य-सर्वकारस्य “एकः जनपदः–एकं क्रीडा-संकुलम्” इति योजनया वर्षे २०२५ क्रीडा-विकासः नूतनां दिशां प्राप्तवान्। अस्याः योजनायाः अन्तर्गतं प्रत्येकस्मिन् जनपदे बहुउद्देशीयाः क्रीडा-परिसराः विकसिताः भवन्ति, यत्र एकस्मिन्नेव परिसरे अनेकेषां क्रीडानां सुविधाः उपलब्धाः सन्ति। एतेन ग्रामीण-अर्धशहरी-क्षेत्रेषु स्थिताः क्रीडकाः स्वजनपदे एव आधुनिक-सुविधाः प्राप्नुवन्ति। अस्य परिणामस्वरूपं प्रतिभानां पलायनं न्यूनं जातं तथा स्थानीयस्तरे प्रतिस्पर्धात्मकं वातावरणं निर्मितम्।

युवाशक्तौ मुख्यमन्त्रिणः विशेषः केन्द्रबिन्दुः

मुख्यमन्त्री डॉ॰ मोहनः यादवः वर्षे २०२५ विविधेषु मंचेषु स्पष्टतया उक्तवान् यत् राज्य-सर्वकारः क्रीडान् केवलं प्रतियोगितारूपेण न, अपि तु युवाशक्तेः सशक्तीकरणस्य राष्ट्रनिर्माणस्य च साधनरूपेण पश्यति। मुख्यमन्त्रिणः कथनम्—“क्रीडासु निवेशः भविष्यत्पीढ्यां निवेशः अस्ति। मध्यप्रदेशस्य लक्ष्यं अस्ति यत् प्रत्येकस्मात् जनपदात् प्रत्येकस्मात् ग्रामात् क्रीडकाः उद्भवेयुः। अत एव अद्य क्रीडा-बजटस्य, क्रीडा-परिसराणां प्रशिक्षण-कार्यक्रमाणां च निरन्तरः विस्तारः क्रियते।”

क्रीडा-मन्त्री विश्वास-कैलाश-सारंगस्य सक्रियः योगदानः

क्रीडा-युवा-कल्याण-मन्त्री विश्वासः कैलाशः सारंगः वर्षे २०२५ क्रीडा-गतिविधीनां सततं निरीक्षणं कृत्वा अनेकाः नूतनाः उपक्रमान् आरब्धवान्। ग्रीष्मकालीन-प्रशिक्षण-शिविराणि, जनपदसम्भागस्तरीयप्रतियोगिताः तथा प्रतिभा-अन्वेषण-कार्यक्रमाः विशेष-प्राथमिकतां प्राप्तवन्तः। मन्त्री अवदत्—

“क्रीडकेभ्यः केवलं प्राङ्गणं न, अपि तु सम्मानं, सुरक्षा, भविष्यस्य अवसराः अपि दातव्याः इति सर्वकारस्य दायित्वम्। एतस्याः भावनायाः अन्तर्गतं छात्रवृत्तयः, पुरस्कार-राशयः तथा शासकीय-सेवासु अवसराः प्रदीयन्ते।”

पदक-सूच्यां सुदृढा उपस्थितिः

वर्षे २०२५ मध्यप्रदेशस्य क्रीडकाः राष्ट्रिय-क्रीडासु अन्यासु च राष्ट्रिय-प्रतियोगितासु प्रशंसनीयं प्रदर्शनं कृतवन्तः। राज्येन अशीत्यधिकानि पदकानि प्राप्तानि, येन एतत् सिद्धं जातं यत् उत्तम-अवसंरचना प्रशिक्षणं च प्रत्यक्षरूपेण प्रदर्शनं प्रभावयतः। यष्टिः, धावनम्, लकस्यभेदनम्, मल्लयुद्धम्, जलक्रीडा, मार्शल्-आर्ट्स् इत्यादिषु क्रीडासु प्रदेशस्य क्रीडकाः निरन्तरं पदक-विजयैः राज्यं गौरवान्वितवन्तः।

शिक्षा-क्रीडयोः समन्वयः

वर्षे २०२५ अन्यतमा महत्त्वपूर्णा उपलब्धिः एषा यत् क्रीडाः शिक्षया सह प्रभावीरूपेण संयोजिताः। क्रीडकेभ्यः अध्ययन-सहायता, क्रीडा-प्रभागेन प्रवेशः, छात्रवृत्तयः तथा जीविका-मार्गदर्शनं प्रदत्तम्। एतेन अभिभावकेषु अपि क्रीडासु विश्वासः वर्धितः।

ग्रामीण-जनजातीय-क्षेत्रेषु नूतना ऊर्जा

क्रीडा-विकासस्य एषा यात्रा नगरेषु एव सीमिता न दृश्यते। वर्षे २०२५ ग्रामीण-आदिवासी-अञ्चलेषु लघु-क्रीडाङ्गण म्, प्रशिक्षण-केन्द्राणि तथा स्थानीय-प्रतियोगिताः आयोजिताः। एतेन दूरस्थ-क्षेत्रेभ्यः अपि प्रतिभाः उद्भूताः तथा क्रीडासु व्यापक-भागीदारी वर्धिता। अस्य सामाजिक-प्रभावः अपि स्पष्टः अभवत्—युवासु आरोग्यं, अनुशासनं, सकारात्मक-चिन्तनं च वर्धितम्, नशा-प्रभृतिभ्यः सामाजिक-दोषेभ्यः दूरीकरणस्य सन्देशः अपि क्रीडामाध्यमेन प्रसारितः।समग्रतया वर्षं २०२५ मध्यप्रदेशस्य कृते क्रीडा-उपलब्धीनां वर्षं सिद्धम्। अभूतपूर्वा क्रीडा-अवसंरचना, सुदृढाः नीतयः, सक्रियं नेतृत्वं तथा क्रीडकानां उत्कृष्टं प्रदर्शनं प्रदेशं देशस्य अग्रणी-क्रीडा-राज्यानां पङ्क्तौ स्थापयति। क्रीडा-विशेषज्ञाः मन्यन्ते यत् यदि एषा एव गतिर्निरन्तरं स्थाप्यते, तर्हि आगामिषु वर्षेषु मध्यप्रदेशः अन्तर्राष्ट्रीय-क्रीडा-मञ्चे अपि स्वस्य सुदृढां उपस्थितिं निश्चयेन दर्शयिष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani