प्रधानमन्त्री नरेन्द्रमोदी अद्य ‘वीरबालदिवस’ उपलक्ष्ये आयोजितं राष्ट्रियसमारोहं संबोधयिष्यति
- प्रधानमन्त्री नरेन्द्रमोदी अद्य ‘वीरबालदिवस’ उपलक्ष्ये आयोजितं राष्ट्रियसमारोहं संबोधयिष्यति। नवदेहली, 26 दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य अपराह्ने नवदेहलीस्थिते भारतमण्डपमे ‘वीरबालदिवसः’ उपलक्ष्ये आयोजिते राष्ट्रियकार्यक्रम
e1c66eb36de111d49c081c9bd62e6b41_1889765559.jpg


- प्रधानमन्त्री नरेन्द्रमोदी अद्य ‘वीरबालदिवस’ उपलक्ष्ये आयोजितं राष्ट्रियसमारोहं संबोधयिष्यति।

नवदेहली, 26 दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य अपराह्ने नवदेहलीस्थिते भारतमण्डपमे ‘वीरबालदिवसः’ उपलक्ष्ये आयोजिते राष्ट्रियकार्यक्रमे सहभागी भविष्यति। प्रधानमन्त्रीः अपराह्णे प्रायः 12:15 वादने कार्यक्रमं संबोधयिष्यति। भारतीयजनतादलेन प्रधानमन्त्रीनरेन्द्रमोदिनः अद्यतन कार्यक्रमस्य सचित्रा सूचना स्वस्य विविधेषु सामाजिकमाध्यमेषु परामर्शा कृता अस्ति।आधिकारिकविज्ञप्तौ ‘वीरबालदिवस’ महत्त्वमपि विवेचितम् अस्ति।

विज्ञप्तेः अनुसारं, केन्द्रसर्वकारस्य तत्वावधानतया अद्य ‘वीरबालदिवस’ उपलक्ष्ये देशव्यापिनः विविधेषु स्थानेषु कार्यक्रमाः आयोजिताः भविष्यन्ति। अस्य उद्देश्यं श्रीगुरुगोबिन्दसिंहस्य पुत्रयोः साहिबजादयोः बाबा जोरावरसिंहस्य तथा बाबा फतेहसिंहस्य असाधारणसाहसं परमं बलिदानं च जनान् अवगतं कर्तुम् अस्ति। अपि च भारतीयेतिहासस्य एतेषां बालवीराणां अदम्यसाहसं, बलिदानं, वीरतां च सम्मानयितुं स्मर्तुं च कार्यक्रमः आयोजितः। कार्यक्रमकाले राष्ट्रियबालपुरस्कारविजेतारोऽपि उपस्थिताः भविष्यन्ति।

आधिकारिकविज्ञप्तेः अनुसारं, एतेषां वीरनायकेषु केन्द्रिताः नानाविधाः क्रियाकलापाः आयोजयिष्यन्ते। तेषु कथावाचनं, कवितापाठः, फलकनिर्माणं, निबन्धलेखनप्रतियोगिताश्च अन्तर्भवन्ति। एते कार्यक्रमाः विद्यालयेषु, बालसंरक्षणसंस्थासु, आङ्गनवाडीकेन्द्रेषु, अन्येषु शैक्षणिकसंस्थासु च तथा ‘माई गव’ एवं ‘माई भारत’ पटलयोः माध्यमेन ऑनलाइनरूपेण अपि आयोजिताः भविष्यन्ति। ज्ञातव्यं यत् प्रधानमन्त्री नरेन्द्रमोदिना वर्षे 2022 तमे जनवरी-मासे नवमे दिवसे श्रीगुरुगोबिन्दसिंहस्य प्रकाशपर्वणः अवसरः समुपलक्ष्य 26 दिसम्बरदिवसे ‘वीरबालदिवस’रूपेण आचरितव्यं इति घोषणा कृता आसीत्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani