वायु प्रदूषणमाधृत्य इंडिया गेट इत्यत्र प्रदर्शनावधौ गृहीतेभ्यः 6 आरोपिभ्यो जामिनी
नव दिल्ली, 26 दिसंबरमासः (हि.स.)। पटियाला-हाउस-न्यायालयेन दिल्ल्यां वायुप्रदूषणनियन्त्रणाय याचिका-प्रसङ्गे इंडिया-गेट-स्थले प्रदर्शनसमये माओवादी-सैन्यनायकस्य समर्थनार्थ नारे उच्चारितवन्तः इति आरोपेण गृहीतानां षट्सु अभियुक्तेषु जामिनं दत्तम्। एते स
पटियाला हाउस कोर्ट


नव दिल्ली, 26 दिसंबरमासः (हि.स.)।

पटियाला-हाउस-न्यायालयेन दिल्ल्यां वायुप्रदूषणनियन्त्रणाय याचिका-प्रसङ्गे इंडिया-गेट-स्थले प्रदर्शनसमये माओवादी-सैन्यनायकस्य समर्थनार्थ नारे उच्चारितवन्तः इति आरोपेण गृहीतानां षट्सु अभियुक्तेषु जामिनं दत्तम्। एते सर्वे कर्तव्यपथे आयोजिते प्रदर्शने मुठभेदे हतस्य माओवादी-सैन्यनायकस्य माडवी हिडमा नाम्नः समर्थनार्थ नारे-प्रोच्चारणे आरोपिताः आसन्। अधिवेशनन्यायाधीशः अमित- बंसल-नामकः जामिनेन मुक्तिं दातुम् आदेशं दत्तवान्।

येषां षट्सु अभियुक्तेषु जामिनं दातुं न्यायालयेन आदेशः कृतः, तेषु इलक्किया, आयेशा-वफीया, रवजोत-कौर, गुरकीरत-कौर, अविनाश-सत्यपथी तथा क्रान्ति इत्येते सम्मिलिताः सन्ति। इतः पूर्वं न्यायालयेन २ दिसम्बरे अष्टाभियुक्तेभ्यः तथा २८ नवम्बरे नवाभियुक्तेभ्यः जामिनं दत्तम्।

शवणसमये अभियुक्तानां पक्षतः उपस्थापनं कृतवन्तः वकीलाः अवदन्—अभियुक्तानां कस्यापि प्रतिबन्धित-सङ्घटनस्य सह सम्बन्धो नास्ति, पुलिसस्य आरोपाः भ्रमजनकाः मिथ्याश्च सन्ति। अपि च उक्तवन्तः—नाराः सत्ताविरुद्धा भवितुं शक्नुवन्ति, किन्तु तेब्यः कारणादेव निरोधनस्य आधारः न भवितुम् अर्हति।

दिल्ली-पुलिसेन इंडिया-गेट-स्थले प्रदर्शन-प्रसङ्गे १७ जनाः गृह्यन्ते स्म। कर्तव्यपथे प्रदर्शनम् अकुर्वतां विषये षट्सु जनानां विरुद्धम् एफआइआर अपि निबद्धा। पुलिसस्य मतम्—एते अभियुक्ताः वायु-प्रदूषणविरोधि-प्रदर्शने दश पुलिस-कर्मचारिषु मिर्चि- स्प्रे इत्येतत् क्षिप्तवन्तः। एतेषां नक्सली-संबन्धं विषये अन्वेषणं प्रवर्तमानम्। पुलिसदलस्य कथनम्—एते प्रदर्शनकारिणः नक्सली-सम्मर्थनार्थम् उद्घोषम् उच्चारितवन्तः।

पुलिसस्य मतम्—एते प्रदर्शनकारिणः माओवादी-सैन्यनायकस्य माडवी हिडमा नाम्नः समर्थनार्थ नारे अकुर्वन्, यः ७६ सीआरपीएफ-जनानां वधस्य कृते उत्तरदायी आसीत्। दिल्ली-पुलिसस्यानुसारम् केचित् प्रदर्शनकारिणः ९ नवम्बर-तिथौ मान-सिंह-रोड इति मार्गं अवरुद्धवन्तः, ततोऽनन्तरं तेषां विरुद्धं भारतीय-न्याय-संहितायाः सप्रसङ्ग-धाराणाम् अधीनम् एफआइआर निबद्धा।

दिल्ली-पुलिसस्योक्त्या—रेडिकल-स्टूडेंट्स-यूनियन इति सङ्घटना प्रतिबन्धिता। अभियुक्तैः सोशल-मीडिया- मंचेषु अस्याः सङ्घटनायाः स्तुतिः कृताऽभूत्। कर्तव्यपथे ये छात्राः प्रदर्शनं कृतवन्तः, ते दिल्ली- विश्वविद्यालयस्यासन्, ये भगतसिंह-छात्र-एकता-मञ्च तथा हिमखण्ड-नामक-सङ्घटनाभ्यां सम्बद्धाः आसन्।

---------------

हिन्दुस्थान समाचार