Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीः मुर्मुः शुक्रवासरे “वीर-बाल-दिवस” इत्यस्य अवसरे क्रिकेटक्रीडकं वैभवं सूर्यवंशीं सहितं देशस्य विंशतिं प्रतिभाशालिनः बालकान् “प्रधानमन्त्री-राष्ट्रिय-बाल-पुरस्कारैः” सम्मानितवती। एषः प्रतिष्ठितः पुरस्कारः पञ्च-वर्षेभ्यः अष्टादश-वर्षपर्यन्तं वयः प्राप्य तेषां बालकानां कृते दीयते, ये साहसस्य, क्रीडायाः, पर्यावरण-संरक्षणस्य, विज्ञानस्य नवाचारस्य, समाजसेवायाः, कला-संस्कृतेः च विविधेषु क्षेत्रेषु असाधारणं योगदानं दत्त्वा देशस्य नाम उज्ज्वलितवन्तः सन्ति।
अस्मिन् अवसरे राष्ट्रपतिः सर्वान् पुरस्कार-विजेतॄन् बालकान् अभिनन्द्य अवदत् यत् तैः स्वकर्मभिः केवलं स्वपरिवारस्य न, अपि तु समाजस्य समग्रस्य देशस्य च गौरवं वर्धितम्। सा अवदत् यत् अद्यतन-भारतं स्वबालकानां प्रतिभया, साहसेन संवेदनशीलतया च निरन्तरं अग्रे गच्छति इति दृष्ट्वा अत्यन्ता प्रसन्नता जायते। राष्ट्रपतिः अवदत् यत् सन् २०२२ तः आरभ्य प्रत्येकं वर्षं षड्विंशतितमे दिसम्बरे “वीर-बाल-दिवस” इति आचर्यते। अस्य पृष्ठभूमौ इतिहासस्य अत्यन्तं प्रेरकः अध्यायः निहितः अस्ति। सा सिख-पन्थस्य दशमगुरोः श्रीगुरु-गोबिन्द-सिंह-जी-महाराजस्य तथा तस्य चतुर्णां साहिबजादानां बलिदानं स्मृत्वा अवदत् यत् प्रायः त्रिशतविंशतिः वर्षेभ्यः पूर्वं सत्यस्य न्यायस्य च रक्षणार्थं तैः अद्वितीयं साहसं प्रदर्शितम्। राष्ट्रपतिः विशेषतः नववर्षीयस्य बाबा-जोरावर-सिंहस्य तथा सप्तवर्षीयस्य बाबा-फतेह-सिंहस्य वीरतां उल्लेखयामास, यौ जीवितौ एव भित्तौ चिन्वितौ आस्ताम्। सा अवदत् यत् तेषां महानां वीर-बालकानां बलिदानं अद्यापि देशे विदेशे च श्रद्धया सम्मानेन च स्मर्यते। वीर-बाल-दिवसः केवलं शौर्यस्य स्मरणं न, अपि तु देशप्रेम्णः राष्ट्रैक्यस्य च उत्सवः अस्ति।
राष्ट्रपतिः अवदत् यत् यस्य देशस्य बालकाः उच्चैः आदर्शैः देशभक्तेः भावनया च ओतप्रोताः भवन्ति, तस्य देशस्य मानवता भविष्यं च उभयमपि सुरक्षितं भवति। सा अपि अवदत् यत् अद्य महान् क्रान्तिकारी शहीदः उधम्-सिंहः जयंती-पावनावसरः अपि अस्ति, अस्मिन् अवसरॆ सा देशवासिनां तर्फतः तं सादरं नतमस्तकम् अकरोत्। स्वीय-सम्बोधने राष्ट्रपतिः अवदत् यत् “प्रधानमन्त्री-राष्ट्रिय-बाल-पुरस्कारस्य” माध्यमेन बालकानां प्रोत्साहनं क्रियते, येन अन्ये अपि बालकाः तेषां प्रेरणां गृहीत्वा अग्रे गच्छेयुः। सा प्रसन्नतां व्यक्तवती यत् अस्मिन् वर्षे सम्मानिताः सर्वे विंशतिः बालकाः स्वस्व-क्षेत्रेषु असाधारणां प्रतिभां प्रदर्शितवन्तः सन्ति तथा उत्कृष्टं प्रदर्शनं कुर्वन्ति।
राष्ट्रपतिः अवदत् यत् पुरस्कार-प्राप्तेषु बालकेषु सर्वन्यून-वयस्का वाका-लक्ष्मी-प्राज्ञिका नाम्ना बालिका केवलं सप्तवर्षीया अस्ति, यत् एतत् दर्शयति यत् प्रतिभायाः काचित् आयुः नास्ति। सा अवदत् यत् एतेषां प्रतिभाशालिनां बालकानां बलात् एव अद्य भारतं विश्वपटके उदयमान-शक्तिरूपेण दृष्टः भवति। सा अजय-राजं मोहम्मद्-सिदान्-पी नाम्नौ बालकौ अपि प्रशशंस, यौ स्वीयया वीरतया बुद्धिमतया च अन्येषां जीवनरक्षणं कृतवन्तौ।
राष्ट्रपतिः भावविह्वला भूत्वा तान् बालकान् अपि स्मृतवती, ये अन्येषां प्राणान् रक्षन्तः स्वप्राणान् उत्सृष्टवन्तः। सा नववर्षीयां व्योमा-प्रियाम् तथा एकादशवर्षीयं कमलेश-कुमारं उल्लेखयित्वा अवदत् यत् अद्य तयोः मातापितरौ एतत् पुरस्कारं गृह्णीतः। सा तयोः आत्मनां शान्तये प्रार्थनां कृतवती।राष्ट्रपतिः “ऑपरेशन-सिन्दूर” इति कार्यकाले सीमायां नियुक्तानां भारतीय-सैन्यस्य सैनिकानां समीपं दुग्धं जलं शीतपेयं च नीतवन्तं दशवर्षीयं शवण-सिंहं अपि प्रशशंस, अवदत् च यत् एते उदाहरणानि समाजस्य कृते प्रेरणास्रोतः सन्ति। सा विश्वासं व्यक्तवती यत् एते सर्वे वीराः प्रतिभाशालिनः बालकाः भविष्ये अपि निरन्तरं सत्कर्माणि करिष्यन्ति, तेषां उपलब्धयः च अन्यान् बालकान् अपि प्रेरयिष्यन्ति।
अस्मिन् समारोहे केन्द्रीय-महिला-बाल-विकास-मन्त्री अन्नपूर्णा-देवी, राज्य-मन्त्री सावित्री-ठाकुरः सहितं अनेके गणमान्य-व्यक्तयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता