Enter your Email Address to subscribe to our newsletters



नवदेहली, दिसम्बरमासः (हि.स.)। संस्कृतभारती देहलीप्रान्तस्य प्रान्तगोष्ठी 2025 तमस्य वर्षस्य दिसम्बरमासस्य 24,25 दिनांकयो: महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठमाध्यमिक-विद्यालय:, हरिनगरम्, नवदेहली इत्यस्मिन् स्थाने सञ्जाता।
तत्र त्रिंशत: जनपदेभ्य: नगर-जनपद-विभाग-प्रान्तस्तरस्य उपसार्धैकशतम् उत्तरदायित्ववन्त: कार्यकर्तार: उपस्थिता:।
गोष्ठ्या: उद्घाटनम् अखिलभारतसंघटनमन्त्रिणा श्रीजयप्रकाशगौतममहोदयेन, प्रान्ताध्यक्षेण डॉ. वागीशभट्टमहोदयेन, प्रान्तमन्त्रिणा प्रो. रणजित्बेहेरामहोदयेन च कृतम्।
एषा गोष्ठी सप्तसत्रेषु विभक्ता आसीत्। अत्र प्रथमसत्रद्व्ये एतस्मिन् वर्षे अप्रैलमासाराभ्य कृतानां सांघटनिककार्याणां वृत्तकथनं जनपदसंयोजकै: आयामप्रमुखै: च कृतम्।
तृतीयसत्रे क्षेत्रगणसदस्येन श्रीमता विनायकमहोदयेन अखिलभारतगोष्ठ्यां निर्णीतानां योजनानां करणीयानां कार्याणां च विस्तरेण चर्चा, योजना च उपस्थापिते।
अस्या: चतुर्थे सत्रे चर्चारूपेण *'उत्तरदायित्वबोध:, प्रवासश्च'* इति विषय: क्षेत्रसङ्घटनमन्त्रिणा श्रीमता नरेन्द्रमहोदयेन स्वीकृत:।
पञ्चमे षष्ठे च सत्रयो: कार्यकर्तृभि: क्रमश: विभागश: आयामश: च उपविश्य इदानीमारभ्य मार्चमासपर्यन्तं करिष्यमाणानां कार्याणां कार्यक्रमाणां च योजना-रचना उपस्थापिता-
*मासत्रयस्य योजना-*
1. *जनवरीमास:-*
* प्रबोधनवर्ग:।
* धनसंग्रहाभियानम्।
* पत्राचाराभियानम् (छात्रपञ्जीकरणं, केन्द्रोद्घाटनाय स्थाननिश्चय:)
2. *फरवरीमास:-*
* पत्राचारपठनकेन्द्रस्योद्घाटनम्।
* गीताशिक्षणकेन्द्रस्योद्घाटनम्।
* श्लोकपठनकेन्द्रस्योद्घाटनम्।
3. *मार्चमास:-*
* बालकेन्द्रस्य प्रचार:।
* सम्भाषणसन्देशस्य ग्राहकता।
*जनपदशिक्षणकेन्द्रस्य स्वरूपम्-* (केन्द्रसंचालनाय गण:)
* केन्द्रसंरक्षक:
* संयोजक:
* सहसंयोजक:
* शिक्षक:
* सहशिक्षक: इति।
सप्तमे सत्रे देहलीप्रान्तस्य माननीयेन प्रान्ताध्यक्षेण डॉ. वागीशमहोदयेन नूतनानाम् उत्तरदायित्वानां घोषणा कृता तथाच स्वप्रेरकवचनै: कार्यकर्तार: संघटनकार्याय प्रेरिता:। तदनु समापनसत्रेस्मिन् संस्कृतभारत्या: अखिलभारतसङ्घटनमन्त्रिणा श्रीमता जयप्रकाशगौतममहोदयेन सङ्घटनपद्धतिं पालयितुं सङ्घटनकार्यस्य विस्ताराय दृढीकरणाय च कार्यकर्तार: प्रेरिता:।
---------------
Hindusthan Samachar / अंशु गुप्ता