तमिलनाडु-विधानसभानिर्वाचनम् : एआईएडीएमके इत्यनेन प्रत्याशिनामांकनपत्र-समर्पणकालावधिः विस्तारितः
चेन्नई, 26 दिसम्बरमासः (हि.स.)। तमिलनाडुराज्ये आगामिनि विधानसभानिर्वाचने दृष्टिपातं कृत्वा अखिलभारतीय-अन्ना-द्रविड़-मुनेत्र-कड़गम् (एआईएडीएमके) दलस्य तर्फात् दलस्य प्रत्याशी भवितुम् इच्छन्तां सदस्याणां कृते नामांकनपत्र-समर्पणस्य कालसीमा विस्तारितेत
एआईडीएमके मुख्यालय


चेन्नई, 26 दिसम्बरमासः (हि.स.)। तमिलनाडुराज्ये आगामिनि विधानसभानिर्वाचने दृष्टिपातं कृत्वा अखिलभारतीय-अन्ना-द्रविड़-मुनेत्र-कड़गम् (एआईएडीएमके) दलस्य तर्फात् दलस्य प्रत्याशी भवितुम् इच्छन्तां सदस्याणां कृते नामांकनपत्र-समर्पणस्य कालसीमा विस्तारितेति निर्णयः कृतः। इच्छुकप्रत्याशिभ्यः तथा दलपदाधिकारिभ्यः निरन्तरं प्राप्तानाम् अनुरोधानां परिपालनार्थं एषः निर्णयः स्वीकृतः। दलस्य पूर्वं घोषितकार्यक्रमानुसारं प्रत्याशिनामांकनपत्राणां स्वीकृतिः, पूर्तिः तथा समर्पणं च 23 दिसम्बरपर्यन्तं निर्धारितम् आसीत्, या कालावधिः समाप्ता। अस्मिन् विषये एआईएडीएमके-दलस्य प्रधान-महासचिवः एडप्पाडी के. पलानीस्वामी महोदयः आधिकारिकवक्तव्यं प्रकाश्य नामांकनकालवृद्धेः सूचनां दत्तवान्।

वक्तव्ये उल्लिखितं यत् तमिलनाडुराज्ये विधानसभानिर्वाचनैः सह पुडुचेरी तथा केरलराज्ययोः विधानसभानां सामान्यनिर्वाचनान् अपि दृष्ट्वा, दलस्य प्रत्याशी भवितुम् इच्छन्तां सदस्याणां कृते 15 दिसम्बरात् 23 दिसम्बर 2025 पर्यन्तं चेन्नई-नगरे रायपेट्टा-स्थिते एआईएडीएमके-मुख्यालये नामांकनपत्र-समर्पणस्य व्यवस्था कृता आसीत्। अस्यायां कालावधौ बहवः दलसदस्याः स्वस्व नामांकनपत्राणि दलमुख्यालये समर्पितवन्तः। तथापि, दलपदाधिकारिभिः कार्यकर्तृभिश्च स्वप्रेरित-आवेदनानां स्वीकृतिकालस्य विस्तारार्थं निरन्तरं इच्छा प्रकटिता। एतान् सर्वान् अनुरोधान् स्वीकृत्य दलनेतृत्वेन नामांकनपत्र-समर्पणस्य कालावधिं अग्रे विस्तारयितुं निर्णयः कृतः।एआईएडीएमके-दलस्य प्रधान-महासचिवः एडप्पाडी के. पलानीस्वामी स्ववक्तव्ये अवदत् यत् अधुना दलप्रत्याशी भवितुम् इच्छन्तः सदस्याः 28 दिसम्बर 2025 तः 31 दिसम्बर 2025 पर्यन्तं (रविवासरात् बुधवासरपर्यन्तम्) प्रतिदिनं प्रातः 10 वादनात् सायं 5 वादनपर्यन्तं रायपेट्टा-स्थितात् दलमुख्यालयात् सम्बन्धितानि नामांकनप्रपत्राणि प्राप्तुं शक्नुवन्ति। तेषु प्रपत्रेषु अपेक्षिताः सर्वाः सूचनाः सम्यग् रूपेण पूरयित्वा निर्धारितायां कालावधौ दलमुख्यालये समर्पणीयाः इति अपि तेन सूचितम्।

दलनेतृत्वस्य अस्य निर्णयस्य फलस्वरूपेण आगामिनि विधानसभानिर्वाचने एआईएडीएमके-दलतः अधिकाधिकाः योग्याः इच्छुकाश्च प्रत्याशिनः अवसरं प्राप्स्यन्तीति सम्भावना व्यक्ता कृता अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani