Enter your Email Address to subscribe to our newsletters

भोपालम्, 26 दिसंबरमासः (हि.स.)। मध्यप्रदेशः वर्षे २०२५ केवलं सर्वस्तरेषु विकासस्य नूतनां आख्यायिकां न लिखति, अपि तु स्वस्य तां सांस्कृतिकाम् आध्यात्मिकीं च अस्मिताम् अपि अधिकं सुदृढां कुर्वन् दृश्यते, या अस्मिता शताब्दशः तस्य अभिन्ने चेतनारूपेण स्वीक्रियते। अस्मिन् वर्षे स्पष्टं दृष्टं यत् राज्यसर्वकारस्य नीतयः तथा बजट-प्राथमिकताः एतत् सूचयन्ति यत् राज्यं सम्प्रति भक्ति-संस्कृत्योः अपि विकासस्य सुदृढम् आधारं निर्माति। वास्तवतः प्रथमवारं मध्यप्रदेशे एतादृशं दृश्यते यत् वार्षिकबजटे एतस्मै क्षेत्राय १६१० कोटिरूप्यकाणां वित्तप्रावधानं कृतम्, यत् गतवर्षात् १३३ कोटिरूप्यकैः अधिकम् अस्ति। एषा वृद्धि स्पष्टतया दर्शयति यत् वर्तमान-मोहन-सर्वकारः आस्थां प्रदेशं प्रगत्या सह सम्बद्धां कर्तुं दृढनिश्चयः अस्ति।
अस्मिन् विषये उपमुख्यमन्त्री जगदीशदेवडामहाशयः कथयति यत् सर्वकारः धार्मिक-सांस्कृतिक-योजनाः केवलं प्रतीकात्मकतया सीमिताः कर्तुं न विश्वसिति, यतः प्रदेशस्य सांस्कृतिकविरासत् दीर्घकालीन-सामाजिक-आर्थिक-विकासाय विशेषमहत्त्वं वहति। एतदेव कारणं यत् अस्मिन् वर्षे श्रीकृष्ण-पाथेय-योजनायै १० कोटिरूप्यकाणां वित्तप्रावधानं कृतम्। अस्याः योजनायाः उद्देश्यं भगवता श्रीकृष्णेन सम्बद्धान् स्थलान्, कथाः, सांस्कृतिकविरासतं च एकं सुव्यवस्थितं पर्यटनसांस्कृतिक-पथरूपेण विकसितुम् अस्ति।
मुख्यमन्त्री डॉ० मोहनयादवः अनेकासु अवसराणां मध्ये उक्तवान् यत् श्रीकृष्णः केवलं इतिहासपुरुषः न, अपि तु भारतीय-जीवनदर्शनस्य केन्द्रबिन्दुः अस्ति। श्रीकृष्ण-पाथेय-योजना तस्यैव दर्शनस्य जन-जनपर्यन्तं प्रसारस्य प्रयासः अस्ति। अधुना अस्याः योजनायाः कार्यान्वयनम् अपि आरब्धम् अस्ति। अस्मिन् क्रम एव राम-पथ-गगन-योजनायै अस्मिन् वर्षे ३० कोटिरूप्यकाणां वित्तप्रावधानं कृतम्। एषा योजना भगवान् श्रीरामेण सम्बद्धानां पवित्रस्थानानां धार्मिक-परिपथरूपेण विकासे अत्यन्तं महत्वपूर्णा मन्यते। सर्वकारस्य मतं यत् रामायणेन सम्बद्धानां स्थलानां संरक्षणं विकासश्च न केवलं श्रद्धालूनां सुविधां वर्धयति, अपि तु सांस्कृतिक-पर्यटनं अपि नूतनां उन्नतिं नयति। मुख्यमन्त्री डॉ० यादवः कदाचित् उक्तवान् यत् रामः भारतीय-समाजस्य नैतिक-सांस्कृतिक-आदर्शाः सन्ति, तैः सम्बद्धाया विरासतायाः संरक्षणं राज्यस्य कर्तव्यम् अस्ति। आध्यात्मिक-ज्ञानस्य सांस्कृतिक-अध्ययनस्य च संस्थागतस्वरूपेण विकासार्थं प्रदेशे सर्वत्र गीताभवनानां स्थापना अपि प्रमुखतया क्रियते। एतदर्थं १०० कोटिरूप्यकाणां वित्तप्रावधानं कृतम्। एतेषु गीताभवनेषु पुस्तकालयाः, सभागाराः, साहित्य-विक्रयकेन्द्राणि च निर्मीयन्ते। सर्वकारस्य उद्देश्यं एतानि केन्द्राणि ज्ञान-संवाद-अनुसन्धान-केन्द्ररूपेण विकसितुं अस्ति, यत्र भारतीय-दर्शनं, भगवद्गीता, संस्कृति च विषये गम्भीरः विमर्शः सम्भवेत्।
श्रद्धालूनां सुविधां दृष्ट्वा तीर्थ-दर्शन-योजनायै ५० कोटिरूप्यकाणां महत् वित्तप्रावधानं कृतम्। प्रदेशे गतवर्षपर्यन्तं निरन्तरं अस्याः योजनायाः माध्यमेन वरिष्ठ-नागरिकाः, दिव्याङ्गजनाः, आर्थिकरूपेण दुर्बलवर्गस्य जनाश्च तीर्थयात्रायाः सुविधां प्राप्नुवन्ति। मुख्यमन्त्री महोदयः एतां योजनां सामाजिक-संवेदनायाः सह सम्बद्धां वर्णयन् उक्तवान् यत् आस्थाप्राप्तिः प्रत्येकं नागरिकस्य अधिकारः अस्ति, तस्मिन् विषये सर्वकारः सेतुरूपेण कार्यं करोति।
धार्मिक-पर्यटन-क्षेत्रे उज्जयिन्यां स्थितं महाकाल-लोकं पूर्वमेव मध्यप्रदेशस्य विशेषपरिचयरूपेण स्थापितम् अस्ति। अधुना सर्वकारः तस्मिन् आदर्शेण ओंकारेश्वरं तथा अन्यान् प्रमुख-तीर्थ-स्थानानि विकसितुं दिशां प्रति कार्यं करोति। मुख्यमन्त्री महोदयस्य मतं यत् यदा विकासः संस्कृत्या सह गच्छति, तदा सः अधिकं स्थायीः समावेशीश्च भवति। मध्यप्रदेशस्य अस्मिता तस्य मन्दिरैः, तीर्थैः, सांस्कृतिक-विरासतया च सम्बद्धा अस्ति, तेषां संरक्षणं भावी-पीढीनां प्रति अस्माकं उत्तरदायित्वम् अस्ति। अपरं च उपमुख्यमन्त्री जगदीशदेवडामहाशयस्य स्पष्टं मतं यत् धार्मिक-पर्यटनं न केवलं आस्थायाः, अपि तु रोजगारस्य, स्थानीय-व्यापारस्य, आर्थिक-गतिविधीनां च महत् साधनम् अस्ति। मन्दिराणां, तीर्थ-स्थानानां, सांस्कृतिक-केन्द्राणां विकासेन स्थानीय-स्तरे होटल-व्यवसायः, परिवहन-सेवाः, हस्तशिल्पं, अन्यसेवाः च वर्धन्ते, येन ग्रामीण-नगरीय-उभय-क्षेत्रेषु नूतन-रोजगार-अवसराः सृज्यन्ते।
अतः समग्रतया दृष्ट्वा वर्षे २०२५ यत् चित्रं प्रकाशते, तत् सूचयति यत् मध्यप्रदेश-सर्वकारः धार्मिक-आस्थां आधुनिक-विकासेन सह सन्तुलितुं दिशां प्रति अग्रसरः अस्ति। बजट-प्रावधानानि, योजनानां संरचना, नेतृत्वस्य वक्तव्यानि च अस्य प्रमाणानि सन्ति यत् प्रदेशः सम्प्रति भक्ति-आधारित-विकास-प्रारुपं स्वीकृत्य अग्रे गच्छति। एवं २०२५ वर्षं प्रदेशाय तादृशं वर्षं भवति—यत्र श्रद्धा, संस्कृति, समृद्धिश्च समं समं पदं निक्षिपन्ति। एषा एव तस्य दृष्टेः प्रतिविम्बनम्, यत्र आस्थायाः सम्मानः, विकासस्य च समुचितः मार्गनिर्देशः समानतया क्रियते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता