Enter your Email Address to subscribe to our newsletters

नवदेहली, 27 दिसंबरमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगेः मनरेगा-योजनां प्रति केन्द्र-सर्वकारं तीव्रतया आक्रान्तवान्। सः अवदत् यत् एषः निर्णयः कोटिशः दरिद्रान् दुर्बलवर्गांश्च निराश्रयान् करोति, सहैव महात्मा-गान्धेः अपमानमपि करोति। तेन उक्तं यत् अधुना सुदृढां योजनां विनिर्माय तस्य विरुद्धं देशव्यापिनं जनान्दोलनं संस्थापयितव्यम्। शनिवासरे दल-मुख्यालये आयोजितायां कांग्रेस-कार्यसमितेः (सीडब्ल्यूसी) सभायां भाषमाणः खरगेः अवदत् यत् मनरेगा-योजनया ग्रामीण-भारतस्य रूपं परिवर्तितम्, सा च विश्वस्य सर्वातिवृहद् ग्रामीण-रोजगार-कार्यक्रमत्वेन प्रतिष्ठिता। अनया पलायनं निरुद्धम्, ग्रामाः अकालात् क्षुधातश्च विमुक्ताः अभवन्, तथा च दलितानां, आदिवासिनां, महिलानां, भूमिहीन-श्रमिकाणां च मनसि एषा श्रद्धा दृढीभूता यत् दरिद्रताया संग्रामे सर्वकारः तेषां सह अस्ति।
सः आरोपं कृतवान् यत् मोदी-सर्वकारेण किमपि अध्ययनं विना, परामर्शं विना च, एषा योजना समाप्तीकृता नूतनश्च विधिः आरोपितः—यथा पूर्वं त्रयाणाम् कृषि-विधानानां विषये कृतम्। खरगेः पुनरपि अवदत् यत् सुदृढां योजनां विनिर्माय देशव्यापिनं जनान्दोलनम् अवश्यम् उन्नेतव्यम्।
सः संगठन-सृजन-अभियानं, आगामि-निर्वाचनानां सिद्धतिं, तथा मतदाता-सूच्यां दरिद्राणां, दलितानां, आदिवासिनां, अल्पसंख्यक-वर्गाणां च नाम-अपसारणस्य आशङ्कां प्रति चिन्तामपि प्रकटितवान्। लोकतन्त्रस्य सुदृढीकरणाय कांग्रेसः पूर्ण-एकतया निर्वाचन-सङ्ग्रामं करिष्यतीति तेन उक्तम्।
तथा च सः प्रवर्तन-निदेशालयस्य (ईडी), आयकर-विभागस्य (आईटी), केन्द्रीय-अन्वेषण-ब्यूरोः (सीबीआई) इत्यादीनां संस्थानां दुरुपयोगं, नेशनल्-हेराल्ड-विषये कांग्रेस-नेतॄणां प्रतिमां दूषयितुं कृतां चेष्टां, तथा अलीकाले बाङ्ग्लादेशे हिन्दू-अल्पसंख्यकेषु जातानाम् आक्रमणानां निन्दामपि कृतवान्। उल्लेखनीयं यत् मनरेगा-योजनायाः स्थाने प्रनीतः “विकसित-भारतः—रोज़गार-आजीविकायै गारण्टी-अभियानम् (ग्रामीणम्)” इति, यः वीबी–जी-राम्-जी विधेयकः २०२५ संसदः उभयोः सदनयोः पारितः, राष्ट्रपतिमहाभागस्य अनुमोदनानन्तरम् अधुना अधिनियमरूपेण प्रवृत्तः अस्ति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता