Enter your Email Address to subscribe to our newsletters

जगदलपुरम् ,27 दिसंबरमासः (हि.स.)। मकरसङ्क्रान्तेः पावनावसरे आगामी १४ जनवरी २०२६ तिथौ जगदलपुर-स्थिते ऐतिहासिके दलपतसागरे दीपोत्सवस्य आयोजनं भविष्यति। एषः आयोजनः केवलं धार्मिक-सांस्कृतिकदृष्ट्या एव महत्त्वपूर्णो न भवति, अपि तु नगरस्य स्वच्छता, सौन्दर्यवर्धनं तथा पर्यावरणसंरक्षणस्य दिशायां नूतनां ऊर्जां अपि प्रदास्यति। अस्मिन् विषये अद्य शनिवासरे आयोजितायां बैठके जगदलपुर-महापौरः संजय पाण्डेयः नगरस्य सर्ववर्गान्, सामाजिकसंगठनानि, युवानः, महिलाः, व्यापारीसंस्थाः तथा सामान्यनागरिकान् च अस्मिन् दीपोत्सवे उत्साहेन सहभागितुं आह्वानं कृतवान्।
महापौरः अवदत् यत् एषः आयोजनः केवलं उत्सवमात्रं न, अपि तु जगदलपुरस्य सांस्कृतिक-परिचयस्य तथा स्वच्छता-अभियानस्य सुदृढीकरणार्थं सामूहिकः प्रयासः अस्ति। अस्यां सभायाम् अपि निर्णयः कृतः यत् आयोजनं सामूहिकसहभागितया सफलं क्रियते, येन दलपतसागरस्य ऐतिहासिक-सांस्कृतिक-पर्यावरणीय-गरिमा संरक्षिता भवेत्। दीपोत्सवस्य माध्यमेन स्वच्छतायाः सन्देशः, जलसंरक्षणस्य महत्त्वं तथा सांस्कृतिक-एकताया भावः जन-जनं प्रति प्रसारितुं लक्ष्यं निधायितम्। महापौरः संजय पाण्डेयः समस्तनगरवासिनः विनीततया आग्रहं कृतवान् यत् ते सर्वेऽपि अस्मिन् दीपोत्सवे सहभागीभूत्वा स्वच्छता-सांस्कृतिक-चेतनायै नूतनां दिशां ददतु। आगच्छन्तु, दीपानां प्रकाशेन दलपतसागरं अधिकं स्वच्छं, सुन्दरं तथा गौरवपूर्णं कुर्मः, च स्वच्छ-जगदलपुरस्य संकल्पं साकारयामः।
दलपतसागर-आइलैण्डे दीपोत्सव-कार्यक्रमस्य कृते अद्य आयोजितायां सभायां कार्यक्रमस्य रूपरेखानिर्माणकाले प्रमुखरूपेण जगदलपुर-महापौरः संजय पाण्डेयः, निगम-आयुक्तः प्रवीण वर्मा, अनिल लुंकड़, संपत झा, धीरज कश्यप, राम नरेश पाण्डेयः, विधु शेखर झा, संग्राम सिंह राणा, लक्ष्मण झा, एच. वाई. कुकड़े, कल्पना वर्मा, सुलता महाराणा, अनिल अग्रवाल, मुकेशसिंहः, राजकुमारपाठकः, अनिलझा, शशिनाथपाठकः, रतनव्यासः, धर्मेन्द्रमहापात्रः, कलविंदरसिंहः, वीरेन्द्रबहुते, रितेशसिन्हा, गोपालभारद्वाजः, हेमन्तश्रीवासः, विजय बहादुरः, सृष्टि-समूहः, दलपतसागर-बचाओ-अभियानस्य समूहः, त्रिवेणी रंधारी, नीलमयादवः, माहेश्वरी ठाकुर, गीतानाग, कलावतीकसेरः, रोशनसिसोदिया, राजपालकसेरः, ममताराणा, बसंतीसमरथ, राधाबघेलHi, सतरूपा मिश्रा इत्यादयः तथा अन्येषां विविधसंगठनानां प्रतिनिधयः प्रमुखतया उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता