दिग्विजय सिंहः कांग्रेसपक्षस्य साम्प्रतिककार्याणि प्रति उदथापयत् प्रश्नम्
नवदिल्ली, 27 दिसंबरमासः (हि.स.)। कांग्रेसदलस्य वरिष्ठनेता तथा मध्यप्रदेशस्य पूर्वमुख्यमन्त्री दिग्विजयसिंहः दलस्य वर्तमानकार्यप्रणालीं विशेषत: केन्द्रीकरणं प्रति प्रश्नान् उद्भाव्य अवदत् यत् अधुना सङ्गठनस्य अधिकव्यावहारिकाया: तथा विकेन्द्रितकार्यक्
दिग्विजय सिंह


नवदिल्ली, 27 दिसंबरमासः (हि.स.)। कांग्रेसदलस्य वरिष्ठनेता तथा मध्यप्रदेशस्य पूर्वमुख्यमन्त्री दिग्विजयसिंहः दलस्य वर्तमानकार्यप्रणालीं विशेषत: केन्द्रीकरणं प्रति प्रश्नान् उद्भाव्य अवदत् यत् अधुना सङ्गठनस्य अधिकव्यावहारिकाया: तथा विकेन्द्रितकार्यक्षेत्रस्य आवश्यकता अस्ति।

दिग्विजयेन एषः विषयः कांग्रेसस्य सर्वोच्चनीतिनिर्धारकसंस्थायाः — कांग्रेसकार्यसमित्याः — शनिवासरे अत्र सम्पन्नायां सभायाम् उपस्थापितः। सूत्राणाम् अनुगुणं सभासमये दिग्विजयेन एतदपि उक्तं यत् कस्यापि विषयस्य विषये राहुलगान्धिं मनयितुं सुलभं न भवति। तथापि दिग्विजयसिंहस्य एतस्मिन्न् वाक्ये राहुलगान्धिः हिन्दुस्थानसमाचारस्य प्रश्नं प्रति स्मितपूर्वकं प्रत्यब्रवीत् — “एतत् तस्य मतमेव।”

तस्मात् पूर्वं 19 डिसेम्बरमासे दिग्विजयेन सामाजिकमाध्यमे “एक्स” नाम्ने मंचे राहुलगान्धिं चिह्नीकृत्य लिखितं यत् सामाजिकआर्थिकविषयेषु राहुलः उत्तमं कार्यं करोति, किन्तु कांग्रेससंगठनेऽपि सुधारस्य आवश्यकता वर्तते। सः एतत् अपि अभ्यधात् यत् निर्वाचनआयोगादिषु संस्थासु यथा सुधाराः आवश्यकाः, तथा एव दलसंगठनेऽपि; केवलम् संगठनसृजनकार्यक्रमेण कार्यं न सिध्यति। अद्य सम्पन्नायाः CWC सभायाः अनन्तरं तेन एवम् उक्तं पोस्ट् अग्रभागे स्थापिता।

वरिष्ठनेता दिग्विजयेन उक्तं यत् कांग्रेसदले विकेन्द्रितकार्यप्रणाली अवलम्बनीयाऽस्ति। सः लिखितवान् — “जानामि त्वं करिष्यसि, यतः त्वं कर्तुं शक्नोषि। केवलं एकः दोषः अस्ति — त्वां मनयितुं सरलम् न भवति।” पोस्ट्-समाप्तौ सः “जय सियाराम” इत्यपि लिखितवान्।

सभाया: अनन्तरं माध्यमैः सह संवादे दिग्विजयेन स्पष्टीकृतम् यत् तेन केवलं संगठनस्य कार्यपद्धतेः विषये एव उक्तम्, न तु राष्ट्रीय स्वयंसेवक सङ्घस्य वा तस्याः विचारधारायाः विषये। दिग्विजयसिंहः अवदत् — “अहं आरएसएस तथा केंद्रसरकारस्य नीतिनां घोरविरोधी आसीत्, अस्मि, भविष्यामि च। संगठनं सुदृढं कर्तुमिच्छा अपराधो नास्ति। किं निर्वाचनसुधारविषये वक्तुं अपराधः अस्ति?”------------

हिन्दुस्थान समाचार