Enter your Email Address to subscribe to our newsletters

नवदेहली, 27 दिसंबरमासः (हि.स)। देशस्य सर्वातिवृहत्ता विमानसेवा-संस्था इण्डिगो-विमानसेवया मुम्बई-नगरस्य टर्मिनल्–२ मध्ये सामान-वाहनपट्टिकाप्रणाल्यां जातायाः अस्थायी-दोषस्थितेः अनन्तरं यात्रापरामर्शः निर्गतः अस्ति। अस्मिन् परामर्शे यात्रिणां चेक्-इन-काउण्टर्-प्रक्रियायां तथा सामान-संग्रहण-काले सम्भाव्य-विलम्बविषये सूचितं कृतम् अस्ति।
इण्डिगो-विमानसेवया शनिवासरे ‘एक्स्’ मञ्चे यात्रापरामर्शः प्रकाशितः, यस्मिन् उक्तं यत् मुम्बई-टर्मिनल्–२ मध्ये वाहन-पट्टिका-प्रणाल्याम् अस्थायी-दोषस्य कारणात् यात्रिभ्यः चेक्-इन-प्रक्रियायां तथा बैगेज्-संग्रहण-काले किञ्चिदधिकं प्रतीक्षणं कर्तुं शक्यते। विमानसेवया अवदत् यत् तस्य भूमिसेवक-दलानि विमानपत्तन-अधिकारीभिः सह समन्वयेन समस्याया शीघ्र-निवारणाय यात्रिणाम् असुविधां न्यूनतमा कर्तुं च निरन्तरं कार्यं कुर्वन्ति।
एतस्य व्यवधानस्य कारणात् इण्डिगो-विमानसेवया यात्रिभ्यः क्षमायाचना कृता तथा आवश्यक-सहाय्यस्य आश्वासनमपि दत्तम्। विमानसेवया कथितम्—“अस्य असुविधायाः कृते वयं खेदं प्रकटयामः, वयं च अवगच्छामः यत् एतेन भवतां योजनासु प्रभावः भवितुं शक्यते। अस्माकं दलानि स्थल एव उपस्थितानि सन्ति, विमानपत्तन-सहयोगिभिः सह मिलित्वा समस्याया समाधानं शीघ्रीकर्तुं तथा सम्पूर्ण-प्रक्रियायां ग्राहकेभ्यः सहयोगं दातुं वेगेन कार्यं कुर्वन्ति।” विमानसेवया यात्रिणां धैर्याय धन्यवादोऽपि ज्ञापितः।
-------------
हिन्दुस्थान समाचार / ANSHU GUPTA