Enter your Email Address to subscribe to our newsletters

भोपालम् 27 दिसंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शनिवासरे सतना-जनपदस्य प्रवासे स्थाष्यति। अस्मिन् अवसरें सः जनपदाय ६५२ कोटिः ५४ लक्ष-रूप्यकाणां व्ययेन सम्पन्नानां विकास-कार्याणां उपहारम् प्रदास्यति। मुख्यमन्त्री डॉ. यादवः सतना-नगरे ३१ कोटिः १५ लक्ष-रूप्यकाणां व्ययेन नवनिर्मितस्य अन्तरराज्यीयलोकायान-स्थानकस्य तथा च ८ कोटिः ३९ लक्ष-रूप्यकाणां व्ययेन नवनिर्मितस्य धवारी क्रिकेट-क्रीडाङ्गणस्य लोकार्पणं करिष्यति।
जनसम्पर्क-अधिकारी राजेश सिंहः अवदत् यत् मुख्यमन्त्री डॉ. यादवः आई.एस.बी.टी. सतना-स्थले आयोजिते कार्यक्रमे सतना-नगरस्य १ कोटि ६८ लक्ष ३३ सहस्र-रूप्यकाणां व्ययेन सम्पन्नानां षट् कार्याणां लोकार्पणं करिष्यति, तथा च ४८४ कोटि २१ लक्ष-रूप्यकाणां व्ययेन सम्पन्नेषु षट् विकास-कार्येषु भूमिपूजनं अपि करिष्यति। सहैव विविध-योजनानां हितग्राहिभ्यः हितलाभ-वितरणं अपि करिष्यति।
सः अपि अवदत् यत् मुख्यमन्त्री डॉ. यादवः शासकीय-चिकित्सा-महाविद्यालये सतना-नगरे आयोजिते कार्यक्रमे ३८३ कोटि-रूप्यकाणां व्ययेन निर्मीयमाणस्य ६५० शय्या-युक्तस्य नवीन-चिकित्सालय-भवनस्य निर्माणार्थं भूमिपूजनं करिष्यति। मुख्यमन्त्री डॉ. यादवः सतना-नगरे आयोजिते विन्ध्य-व्यापार-मेला-कार्यक्रमे अपि सहभागं करिष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani