राष्ट्रीय-उपभोक्ता-दिवसे प्रह्लादजोशी विस्फोटक-निरोधक-प्रणाली-मानकं प्रकाशितवान्
नव-दिल्ली, २८ दिसम्बरमासः (हि.स.)। राष्ट्रीय-उपभोक्ता-दिवसावसरे केन्द्रीयोपभोक्ता-विषय-, खाद्य-एवं-सार्वजनिक-वितरण-मन्त्री प्रह्लादजोशी विस्फोटक-निरोधक-उपकरणानां प्रदर्शनं मूल्याङ्कनं तथा सुरक्षापरीक्षणं मानकीकर्तुम् आईएस् १९४४५:२०२५ – विस्फोटक-सम
प्रह्लाद जोशी (फाइल फोटो)


नव-दिल्ली, २८ दिसम्बरमासः (हि.स.)। राष्ट्रीय-उपभोक्ता-दिवसावसरे केन्द्रीयोपभोक्ता-विषय-, खाद्य-एवं-सार्वजनिक-वितरण-मन्त्री प्रह्लादजोशी विस्फोटक-निरोधक-उपकरणानां

प्रदर्शनं मूल्याङ्कनं तथा सुरक्षापरीक्षणं मानकीकर्तुम् आईएस् १९४४५:२०२५ – विस्फोटक-समापन-प्रणाली-प्रदर्शन-मूल्याङ्कन-एवं-आवश्यकता-मानकं प्रकाशितवान्। एतत् मानकं गृह-मन्त्रालयस्य तथा डीआरडीओ-अन्तर्गत-टीबीआरएल-प्रयोगशालायाः आग्रहानुसारं सिद्धीकृतम्।

राजधानी-देहल्यां भारत-मण्डपम् इत्यत्र आयोजिते कार्यक्रमे प्रह्लादः जोशीः राष्ट्रीय-उपभोक्ता-दिवसे अस्य मानकस्य विमोचनं कृतवान्। एतत् मानकं पीजीडी २८ समिति अन्तर्गतं सहमति-आधारित-प्रक्रियया विकसितम्। अस्य कृते पीजीडी २८ पी१ पैनलः डीआरडीओ-अन्तर्गत-टीबीआरएल-प्रयोगशालायाः अध्यक्षतायां गठितः। निर्माण-प्रक्रियायां डीआरडीओ, एनएसजी, एमईएस, डीजीक्यूए, केन्द्रीय-सशस्त्र-पुलिस-बलानि, राज्यारक्षकाः, एएआई, एनसीआरटीसी, अनुसन्धान-संस्थानानि, सार्वजनिक-वैयक्तिक-निर्मातारः तथा परीक्षण-विशेषज्ञाः सम्मिलिताः आसन्।

उपभोक्ता-विषय-विभागस्य सचिवः निधिः खरे अवदत् यत् एतत् मानकं स्वैच्छिकरूपेण स्वीकरणीयः अस्ति, येन गुणवत्ता-आधारित-निर्माणे तथा परीक्षणे एकरूपतायाः संवर्धनं भविष्यति।

अस्मिन् मानके विस्फोटक-कम्बल, बम-बास्केट्, बम-इन्हिबिटर् इत्यादीनाम् उपकरणानां परीक्षणाय परीक्षणपरिसरस्य स्थितिः, उपकरणानि, परीक्षण-विधयः तथा स्वीकृति-मानदण्डाः सुनिश्चिताः सन्ति।

अनेन मानकेन सञ्चालकानां, प्रथम-प्रतिक्रिया-दलानां तथा सामान्य-नागरिकाणां सुरक्षा वर्धिष्यते, क्रय-प्रक्रियायां पारदर्शिता आगमिष्यति, तथा मेक्-इन-इण्डिया योजनायाः अन्तर्गतं स्वदेशी-निर्मातृभ्यः नवाचार-गुणवत्ता-संशोधनयोः साहाय्यं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता