Enter your Email Address to subscribe to our newsletters

रायपुरम्, २८ दिसम्बरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः अद्य रविवासरे मुख्यमन्त्री-निवासे जनप्रतिनिधिभिः सह प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मासिक-रेडियो-कार्यक्रमस्य ‘मन की बात’ इत्यस्य १२९ तमम् उपाख्यानं श्रुतवान्। अस्मिन् अवसरे सांसदः सन्तोषपाण्डेयः, विधायकः प्रबोधमिञ्जः तथा विधायकः पुरन्दरमिश्रः अपि उपस्थिताः आसन्।
मुख्यमंत्री सायः अवदत् यत् वर्षस्य अन्तिमे ‘मन की बात’ उपाख्याने प्रधानमन्त्री नरेन्द्रमोदी स्वदेशी-स्वीकारः, देशे निर्मित-उत्पादानाम् उपयोगस्य प्रोत्साहनम्, चिकित्सकस्य परामर्शं विना एण्टिबायोटिक-औषधानां सेवनात् विरतिः— इत्यादिषु महत्त्वपूर्णविषयेषु राष्ट्राय मार्गं दर्शितवान्। सः अवदत् यत् ‘मन की बात’ माध्यमेन प्रधानमन्त्री निरन्तरं जनसहभागितां, नवाचारं, आत्मनिर्भरत्वं, स्वास्थ्य-जागरूकतां तथा राष्ट्र-निर्माणस्य संकल्पं सुदृढं करोति। कार्यक्रमे प्रधानमन्त्री मोदीः वर्षं २०२५ भारताय उपलब्धि-समृद्धं गौरवपूर्णं वर्षम् इति निरूपितवान्।
सः देशस्य सुरक्षा, क्रीडा, विज्ञानं तथा अन्तरिक्ष-अनुसन्धानम्, पर्यावरण-संरक्षणं, समृद्ध-सांस्कृतिक-सम्पत्तेः संरक्षणं च — एतेषु क्षेत्रेषु प्राप्तानां ऐतिहासिकसफलतानाम् उल्लेखं कृतवान्। क्रीडकानां पैरा-क्रीडकानां च उत्कृष्ट-प्रदर्शनं, यूनां नवाचाराः, तथा ‘स्मार्ट् इण्डिया हैकाथॉन’ इत्यादीनां मञ्चानां सकारात्मकीं भूमिकां सः विशेषतया रेखाङ्कितवान्। ‘मन की बात’ कार्यक्रमे प्रधानमन्त्री मणिपुरप्रदेशस्य युवकस्य मोइराङ्गथेम् सेठः इत्यस्य सौर-ऊर्जा-सम्बद्ध-प्रयत्नानां प्रशंसां कृत्वा ‘पीएम् सूर्य-गृहम् निःशुल्क-विद्युत्-योजना’ इत्यस्य उल्लेखं कृतवान्। तथा च ओडिशा-प्रदेशस्य स्वातन्त्र्य-संग्रामिण्याः पार्वती-गिर्याः योगदानं नत्वा समाज-सेवा-त्यागयोः मूल्यानि स्वीकर्तुं जनान् आहूतवान्। कार्यक्रमे आईसीएमआर इत्यस्य प्रतिवेदनस्य उल्लेखं कृत्वा प्रधानमन्त्रीः एण्टिबायोटिक-औषधानां अनियन्त्रित-उपयोगे चिन्तां व्यक्तवान्, नागरिकान् चिकित्सकस्य परामर्शानुसारमेव औषध-सेवनाय प्रेरितवान्।
कार्यक्रमस्य अन्ते सः ‘फिट् इण्डिया मूवमेण्ट्’ अन्तर्गतं स्वास्थ्यकर-जीवन-शैलीं स्वीकर्तुं सन्देशं दत्त्वा सर्वेभ्यः देशवासिभ्यः २०२६ वर्षस्य कृते शुभाशयाः प्रेषितवान्।
मुख्यमन्त्री सायः अवदत् यत् ‘मन की बात’ देशं संयोजयति, सकारात्मक-ऊर्जाञ्च प्रसारयति। अस्य प्रत्येकं खण्डं प्रेरणां, जागरूकतां, जन-सहभागिता-भावनां च नूतनतया सञ्चारयति, यस्य श्रवणाय सर्वे नागरिकाः उत्कण्ठया प्रतीक्षां कुर्वन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता