मुख्यमंत्री विष्णुदेव सायः कुशाभाऊ ठाकरे इत्यस्य पुण्यतिथौ अकरोत् प्रणामम्
कुशाभाऊ ठाकरे का संपूर्ण जीवन राष्ट्रहित के लिए रहा समर्पित : मुख्यमंत्री साय
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 28 दिसंबरमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः प्रख्यातराजनीतिज्ञस्य कुशाभाऊठाकरे इत्यस्य पुण्यतिथौ (२८ दिसम्बर्) तं श्रद्धया प्रणम्य सम्मानितवान्।

मुख्यमन्त्रिणा सायेन उक्तं यत्कुशाभाऊठाकरे-जीनः समग्रं जीवनं राष्ट्रस्य समाजस्य च सेवायै समर्पितम् अभूत्। ते न सत्ता-माध्यमेन, अपितु मूल्यैः संस्कारैश्च राजकारणे सकारात्मकपरिवर्तनं आनयितुम् अभिलषन्तः आसन्।

मुख्यमन्त्रिणा उक्तं यत् कुशाभाऊठाकरे-जीनां सरलता, अनुशासनम्, निष्ठा, आत्मीयता च एव तेषां व्यक्तित्वस्य मुख्यलक्षणानि आसन्। भारतीय-लोकतन्त्रस्य सुदृढीकरणे, तस्य जन-जन-पर्यन्तं प्रसारणे च तैः महत्वपूर्णभूमिका निर्वृता।

मुख्यमन्त्रिणा पुनरुक्तं छत्तीसगढराज्येन सह कुशाभाऊठाकरे-जीनः विशेषसम्बन्धः आसीत्। स्वजीवनेनैव तैः एष संदेशः दत्तः यत् राजकारणस्य मूलोद्देशः सेवा, राष्ट्रहितं, समाजकल्याणं च भवितुमर्हति। अन्ते मुख्यमन्त्रिणा उक्तम्—कुशाभाऊठाकरे-जीनां पावनस्मृतयः अस्मान् सर्वान् राष्ट्रस्य समाजस्य च कृते समर्पितभावेन कार्ये निरन्तरं प्रेरयन्ति।

---------------

हिन्दुस्थान समाचार