केंद्रीय मंत्री प्रह्लाद जोशी प्रासारयत् इलेक्ट्रिक कृषि ट्रैक्टरयानस्य नूतनं मानकम्
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;} -राष्ट्रिय उपभोक्ता दिवसे इलेक्ट्रिक कृषि ट्रैक्टरयानेभ्यो नूतनं भारतीय मानकम् आईएस 19262:2025अनुमतम् नव दिल्ली, 28 दिसंबरमासः (हि.स.)। र
प्रह्लाद जोशी (फाइल फोटो)


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

-राष्ट्रिय उपभोक्ता दिवसे इलेक्ट्रिक कृषि ट्रैक्टरयानेभ्यो नूतनं भारतीय मानकम् आईएस 19262:2025अनुमतम्

नव दिल्ली, 28 दिसंबरमासः (हि.स.)।

राष्ट्रियोपभोक्‍तृदिवसस्य अवसरमध्ये रविवासरे नवीदिल्लीस्थिते भारतमण्डपं नाम स्थले केन्द्रीयमन्त्री प्रह्लादजोशी इत्यनेन वैद्युतकृषिट्रैक्टरयानानां कृते भारतीयमानकं ‘आईएस् 19262:2025 इलेक्ट्रिक् एग्रीकल्चरल् ट्रैक्टर्स् टेस्ट् कोड्’ इति नामकं प्रकाशितम्। एतत् मानकं भारतीयमानकब्यूरो (बीआईएस्) इत्यनेन निर्मितम्, यस्य उद्देश्यः वैद्युतकृषिट्रैक्टरयानानां परीक्षणप्रक्रियां एकरूपां पारदर्शिनीं वैज्ञानिकां च कर्तुम् अस्ति।

केन्द्रीयोपभोक्‍तृकार्यखाद्यसार्वजनिकवितरणमन्त्रालयस्यानुसारम् ‘आईएस् 19262:2025’ इति मानके वैद्युतकृषिट्रैक्टराणां परीक्षणाय सुबोधाः दिशा-निर्देशाः समानशब्दावली च निर्धारिताः। अस्मिन् मानके पीटीओ-शक्ति, ड्रॉबार्-शक्ति, बेल्ट्-पुलि-प्रदर्शनम्, कम्पनपरीक्षणम् तथा ट्रैक्टरस्य विविधानां अवयवानां निरीक्षणं सम्बन्धिन्यः आवश्यकाः परीक्षणप्रक्रियाः समाविष्टाः सन्ति। मन्त्रालयं मन्यते यत् अस्य परिणामतः कृषकाः निर्मातारश्च उभयतः स्पष्टं विश्वसनीयं च परीक्षणढाँचा प्राप्स्यन्ति।

मन्त्रालयेन अपि उक्तं यत् डिजेल्-ईंधनेन सञ्चालितानां ट्रैक्टराणां तुलनायां वैद्युतट्रैक्टरयानानि क्षेत्रेषु धूमं न उत्सर्जयन्ति, अल्पं शब्दं जनयन्ति, संचालनव्ययः अपि न्यूनतरः भवति। एषु चलितभागानां संख्या अल्पा अस्ति, अतः दुरुस्तिकरणरक्षणकार्ये आवश्यकता अपि न्यूनतरा भवति। दीर्घकालं क्षेत्रेषु परिश्रमं कुर्वद्भ्यः कृषकेभ्यः एते पर्यावरणानुकूलाः स्वास्थ्यदृष्ट्या च श्रेष्ठविकल्पाः इति अभिमतं जातम्।

बीआईएस् इति संस्थया एतत् मानकं कृषिमन्त्रालयस्य अनुरोधेन प्राथमिकतायाः आधारे विकसितम्। तस्य निर्माणप्रक्रियायां वैद्युतट्रैक्टरनिर्मातृसंस्थाः, अनुसंधानसंस्थानानि, कृषिअभियांत्रिकीविशेषज्ञाश्च सक्रियतया भागिनः आसन्। अस्मिन् क्रमे आईसीएआर्–केन्द्रीयकृषिअभियांत्रिकीसंस्थानम् (भोपाल), केन्द्रीयकृषियन्त्रमापनसंस्थानम् (बुदनी), ट्रैक्टर एण्ड् मेकेनाइज़ेशन् असोसिएशन् (नवीदिल्ली), ऑटोमोटिव् रिसर्च् असोसिएशन् ऑफ् इंडिया (पुणे) तथा ऑल् इण्डिया फार्मर्स् अलायंस् इत्यादयः संस्थाः सहयोगं कृतवत्यः।

यद्यपि एतत् मानकम् अधुना स्वेच्छानुगामि एव अस्ति, तथापि सरकारः बीआईएस् च मन्येते यत् अस्य प्रवर्तनात् देशे वैद्युतकृषिट्रैक्टरयानानाम् उपयोगः वर्धिष्यते, नूतनप्रौद्योगिकीनां स्वीकारः शीघ्रतया भविष्यति, कृषौद्योगे च प्रदूषणशमनस्य दिशि महत्वपूर्णा सहायता भविष्यति।

-------------

हिन्दुस्थान समाचार