Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 दिसंबरमासः (हि.स.)।अरावलीपर्वतमालायाः नूतनपरिभाषाया विरुद्धे प्रवर्तमानविरोधस्य मध्ये कांग्रेसमहा−सचिवः जयरामरमेशः केंद्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्रिणं भूपेन्द्रयादवं प्रति पत्रं लेखित्वा अस्य विषये गम्भीरां आपत्तिं व्यक्तवान्।
जयरामरमेशेन लिखितं यत् प्रस्ताविता नूतना परिभाषा अरावलीपर्वतमालां केवलं शतमित्रीया अथवा तस्मादधिकया उन्नत्यायुक्तेषु भूआकारेषु एव सीमितां करोति, यथा च राजस्थानराज्ये सन् 2012तश्चिरं वनसर्वेक्षणभारतस्य (एफएसआई) 28 अगस्त 2010 इत्यस्य वैज्ञानिकप्रतिवेदनस्य मापदण्डानाम् आधारेण अरावलीस्य पहचान क्रियते स्म।
स्वपत्रे सः एफएसआईद्वारा 20 सितम्बरदिनाङ्के सर्वोच्चन्यायालयेन स्थापितायै केंद्रीयसशक्तसमित्यै (सीईसी) प्रदत्ताम् जानकारी च समितेः 7 नवम्बरस्य प्रतिवेदनं च उद्धृत्य अस्य परिवर्तनस्य वैज्ञानिकान्, कानूनीयान्, पारिस्थितिकान् च परिणामान् विषये तथ्यात्मकान् प्रश्नान् उद्भावितवान्।
रमेशः लिखितवान्— कच्चित् एतद् सत्यं न वा यत् 2010 तस्य एफएसआई प्रतिवेदने त्रयोः अंशानाम् अथवा तस्मादधिकस्य ढलनयुक्ताः प्रदेशाः शतमित्रीयेण समानेन बफर-सहितेन सह पर्वतीयभू-आकृतिरित्यभिहिताः आसन्? तथा च तेभ्यः प्रदेशेभ्यः अन्तर्भवन्तः सपाटभूभागाः, टेबलटॉपाख्याः समतलशिखरभागाः, अवनमनक्षेत्राणि, उपत्यकाः च अपि अरावलीनाम्नः पर्वतीयसंरचनायाः अविभाज्यभागत्वेन स्वीकृताः आसन् इति?
तथैव असौ अवदत्— कच्चिदेतत् अपि तथ्यं न वा यत् 20 सितम्बर 2025 इति दिवसे एफएसआई इदं मंत्रालयं प्रति निवेदितवती यत् 10–30 मीटर उन्नत्ययुक्ताः लघुपर्वताः मरुदेशीकरणात् रेतोऽन्धकारप्रवाततश्च दिल्लीसमीपवर्तिषु समतलप्रदेशेषु रक्षणार्थं प्राकृतिकवायोरवरोधकस्य कार्यं कुर्वन्ति, च स अवरोधप्रभावः उन्नत्यनुरूपेण सीध्रेण अनुपाते वर्धते इति?
सीईसीप्रतिवेदनं संदिश्य जयरामरमेशः अवदत्— कच्चित् एतदपि सत्यं न वा यत् समित्या निष्कर्षणं कृतम् आसीत् यत् राजस्थानराज्ये स्थितानि 164 खननपट्टानि तत्कालीनएफएसआईपरिभाषाया अनुसारं अरावलीपर्वतमालान्तर्गतानि आसन्?
सः आशङ्कामकथयत् यत् यदि नूतना परिभाषा कार्यान्विता भविष्यति तर्हि असंख्याः लघुपर्वताः अन्ये च भू−रूपाः अरावलीश्रेण्याः बहिर्भविष्यन्ति, येन चतुर्षु राज्येषु विस्तीर्णायाः अस्याः प्राचीनायाः पर्वतमालायाः भौगोलिकनिरन्तरता तथा पारिस्थितिकीसंरचना गम्भीररूपेण दुर्बला कर्तुं शक्यते।
-----------------
हिन्दुस्थान समाचार