Enter your Email Address to subscribe to our newsletters

बरेली, 28 दिसंबरमासः (हि.स.) ।इण्डियन् इण्डस्ट्रीज एसोशिएशन् (आईआईए) बरेलिचैप्टरपक्षेण नववर्षस्य 2026 इत्यस्य डायरी-ग्रन्थस्य भव्यः विमोचन-समारम्भः आयोजितः। कार्यक्रमे नगरस्य प्रख्यातः उद्योगपति समाजसेवी च सुदीप् राजगढ़िया इत्यस्मै “बरेली उद्यमी रत्न सम्मान” इति सम्मानः प्रदानितः। तथा युवाउद्यमितायाः प्रोत्साहनार्थं संदीपतिवारी इत्यस्मै “युवा उद्यमी पुरस्कारः” दत्तः।
समारम्भस्य मुख्यातिथिः उत्तरप्रदेश-सर्वकारस्य वन-पर्यावरण-राज्यमंत्री (स्वतन्त्रप्रभार) डॉ अरुणकुमारसक्सेन आसीत्। सः आईआईए संस्थायाः भूमिकां प्रशंस्य अवदत् यत् संस्था उद्योगैः सहितं सामाजिकसहकारितासु अपि सजगा वर्तते। सर्वेभ्यः नववर्षस्य 2026 शुभाशंसाः अपि दत्ताः।कार्यक्रमे आईआईए-राष्ट्रीयाध्यक्षः दिनेशगोयलः आगामीत्रयाणि महानि राष्ट्रिय-एक्स्पो-प्रदर्शनानि घोषयामास। तैः उक्तम् — इण्डिया फूड् एक्स्पो 16–18 जनवरी 2026 लखनऊ-नगरे, इण्डिया सोलर् तथा ई-व्हीकल् एक्स्पो 21–23 फरवरी 2026 मेरठे, तथा यूपी डिफेन्स् एक्स्पो 2026 कानपुरे आयोजितं भविष्यति।अस्मिन् अवसरे उद्योग–अकादेमिया-सहकाराय नूतनदिशा दत्वा श्रीराममूर्ति स्मारक् ट्रस्ट् (SRMS) तथा आईआईए इत्यनयोः मध्ये एम्ओयू इति करारपत्रे हस्ताक्षरः कृतः। अस्य लक्ष्यं अनुसन्धानस्य, नूतनप्रवर्तनस्य, कौशलविकासस्य, इण्टरनिशिप, स्टार्ट्-अप् तथा इन्क्युबेशन्-क्रीयाणां प्रोत्साहनम्। अस्मिन् एम्ओयू-पत्रे SRMS-पक्षतः सचिवः आदित्य-मूर्ति तथा आईआईए-पक्षतः राष्ट्रीयाध्यक्षः दिनेशगोयलः हस्ताक्षरं कृतवन्तौ।चैप्टराध्यक्षो मयूरधीरवानी इत्यनेन उक्तं यत् SRMS- महाविद्यालयस्य अभियान्त्रिकी एम्.बी.ए. छात्राः उद्योगानां आवश्यकतानुरूपाः सन्ति, उद्योगैश्च तेषां प्रशिक्षणदानेन व्यवहारिकानुभवः प्रदातुं शक्यते। दैनंदिन्याः विशेषतानां विषये ऋषभदीक्षितेन उक्तं यत् निदेशिकायुक्ता एषा डायरी सदस्येभ्यः अत्यन्तोपयोगी भविष्यति।कार्यक्रमे उद्यमी-मित्र संयुक्त-पुरस्कारः आईपीएस् मानुष् पारीक्, एस्.पी. सिटी बरेली तथा मंसूरकटियार् क्षेत्रीयप्रबन्धकः यूपीसीडा बरेली—एभ्यः प्रदत्तः। अपि च आईएमए-स्टेट्-प्रेसिडेण्ट् डॉ रविश् अग्रवालस्य अपि सम्मानः कृतः।आईआईए बरेली-चैप्टरदलस्य कोषाध्यक्षः आशीषगुप्तः अतिथीनां स्वागतं कृतवान्, कार्यक्रमस्य सञ्चालनं डॉ मनीष् शर्मा अकुर्वत्। चैप्टर-सचिवः रजत् मेहरोत्रा विगतमासे कृतानां कार्याणां विवरणं प्रस्तुतवान्। अन्ते सहसचिवः ध्रुव् खानिजः धन्यवादज्ञापनं कृतवान्। दीर्घरात्रिं यावत् रंगारङ्गकार्यक्रमैः सह नववर्षस्य स्वागतं कृतम्। कार्यक्रमस्य समापनम् अपि रात्रौ रंगारङ्गकार्यक्रमैः सह अभवत्। समारेहे प्रायेण 200 उद्यमिनः सहभागिनः आसन्।
हिन्दुस्थान समाचार