Enter your Email Address to subscribe to our newsletters

- दक्षिणभारते हिन्दीसेवायै शिक्षाविद् प्रभाशंकरप्रेमी पुरस्कृतः
बेङ्गलुरु, 28 दिसम्बरमासः (हि.स.)। दक्षिणभारतस्य प्रसिद्धा साहित्यिकसंस्था ‘शब्द’ इत्यस्य आयोजनात् रविवासरे झारखण्डप्रदेशस्य कवयित्री जसिन्ता केरकेट्टा एकलक्षरूप्यकपरिमितेन प्रतिष्ठितेन ‘अज्ञेय शब्द सृजन सम्मान’ इत्यनेन सम्मानिता। अयं सम्मानः बेङ्गलुरु-नगरे आयोजिते
संस्थायाः अष्टाविंशतितमे वार्षिकोत्सव-सह-पुरस्कार-अर्पण-समारोहे एव प्रदानः कृतः। अस्मिन्नेव अवसरे दक्षिणभारते हिन्दीसेवायै पञ्चविंशतिसहस्ररूप्यकपरिमितः ‘दक्षिण भारत शब्द हिन्दी सेवी सम्मान’ प्रसिद्धाय शिक्षाविदे
बेङ्गलुरु विश्वविद्यालयस्य हिन्दीविभागस्य अवकाशप्राप्ताय प्राध्यापकाय प्रो. टी.जी. प्रभाशंकरप्रेमिणे प्रदानः कृतः। सम्मानस्वरूपेण नगद-राशेः सह अङ्गवस्त्रम्, स्मृतिचिह्नम्, प्रशस्ति-फलकं, श्रीफलं च समर्पितम्।
‘अज्ञेय शब्द सृजन सम्मान’ स्वीकुर्वन्ती झारखण्डप्रदेशस्य कवयित्री जसिन्ता केरकेट्टा उक्तवती यत् रचनाकारस्य विशेषतः स्त्री-रचनाकारस्य स्वलोकस्य बोधः, अस्मितायाः अनुभूतिः अभिमानभावश्च अत्यन्तम् आवश्यकः। ‘शब्द’ संस्थया मम सम्माननेन आदिवासी-अस्मिता तथा अन्तिमचरणे स्थितायाः काव्यपरम्परायाः आदरः कृतः इति मम दृढविश्वासः अस्ति।
‘दक्षिण भारत शब्द हिन्दी सेवी सम्मान’ स्वीकुर्वन् शिक्षाविद् डॉ. टी.जी. प्रभाशंकरप्रेमी अवदत् यत् आधुनिके संस्कृतिसंघर्षकाले प्रेमस्य पारस्परिकतायाश्च विकासः नूतनः नागरिकधर्मः जातः। भाषायां संस्कृतिः वदति तथा संरक्षिता भवति,
अतः प्रत्येकं भाषिकसमाजः स्वभाषायाः विषये संवेदनशीलः भवति। परं भारतस्य बहुभाषिकता विविधतायां एकतां सुदृढयति— एतद् विस्मर्तव्यं न।
समारोहस्य मुख्यातिथिः प्रख्यातः विचारकः यूनेस्को-संस्थायां भारतस्य पूर्व-सांस्कृतिक-दूतः चिरंजीवसिंहः अवदत् यत् साहित्यं जीवनस्य प्रकाशः अस्ति, कविता च मानवसभ्यतायाः उत्कर्षगाथा। यत्र जीवनं स्पन्दते स एव सत्यसाहित्यः।श्रेष्ठतमा मानवीया अभिव्यक्तिः काव्ये निहिता अस्ति, अतः जीवन्ताः राष्ट्राः स्वकवीन् सम्मानयन्ति।
कार्यक्रमस्य आरम्भे संस्थायाः अध्यक्षः डॉ. श्रीनारायणसमीरः स्वागतभाषणे अवदत् यत् ‘शब्द’ संस्थायाः पुरस्काराणाम् उद्देश्यं साहित्यं साहित्यकारं च समाजस्य विचारकेन्द्रे प्रतिष्ठापयितुं तथा समादर्तुं भवति। यदि दक्षिणभारतस्य एषः प्रयासः उत्तरभारते नवाचारस्य सशक्तीकरणे सफलः अभविष्यत् तर्हि भारतभावस्य सुदृढीकरणे स्वप्रयत्नं सफलं मन्यामहे।
‘अज्ञेय शब्द सृजन सम्मान’ समाजसेविना अज्ञेय-साहित्यस्य मर्मज्ञेन बाबूलालगुप्तफाउण्डेशन् इत्यस्य सौजन्येन तथा ‘दक्षिण भारत शब्द हिन्दी सेवी सम्मान’ बेंगलुरु-चेन्नै-नगरेभ्यः प्रकाशितस्य हिन्दी-दैनिकस्य ‘दक्षिण भारत राष्ट्रमत’ इत्यस्य सौजन्येन प्रदानं क्रियते। अस्मिन्नेव अवसरे ‘शब्द’ संस्थायाः सदस्यस्य युवकविना दीपकसोपोरीणः कवितासंग्रहस्य ‘पीढ़ियों की पीर’ इत्यस्य लोकार्पणम् अपि कृतम्। कार्यक्रमस्य संचालनं संस्थायाः सचिवया डॉ. उषाराणी रावद्वारा कृतम्। धन्यवादज्ञापनं च कार्यक्रमसंयोजकेन श्रीकान्तशर्मणा कृतम्।
समारोहस्य द्वितीये सत्रे आयोजितस्य कविसम्मेलनस्य अध्यक्षता गीतकारेण आनन्दमोहनझा द्वारा कृता। संचालनं च ग़ज़लगो विद्याकृष्णया कृतम्। ‘शब्द’ संस्थायाः कवीनां काव्यपाठं श्रोतृगणः अत्यन्तं हर्षेण रसास्वादनं च कृतवान्।
--------------
हिन्दुस्थान समाचार