रायपुरम् : उद्योग मंत्री लखनलाल देवांगनोऽद्य कोरबा जिल्लायाः भ्रमणे
रायपुरम् 28 दिसंबरमासः (हि.स.)। वाणिज्य-उद्योग-श्रममन्त्री लखनलालदेवाङ्गनः अद्य रविवासरे कोरबाजिलायाः भ्रमणे भविष्यति। मन्त्री देवाङ्गनः कोरबायां 4.22 कोटिरूप्यकाणां मूल्यकानां नानाविधनिर्माणकार्यानां भूमिपूजनं करिष्यति। नियतभ्रमणकार्यक्रमानुस
मंत्री  लखनलाल देवांगन


रायपुरम् 28 दिसंबरमासः (हि.स.)।

वाणिज्य-उद्योग-श्रममन्त्री लखनलालदेवाङ्गनः अद्य रविवासरे कोरबाजिलायाः भ्रमणे भविष्यति। मन्त्री देवाङ्गनः कोरबायां 4.22 कोटिरूप्यकाणां मूल्यकानां नानाविधनिर्माणकार्यानां भूमिपूजनं करिष्यति।

नियतभ्रमणकार्यक्रमानुसारम् उद्योगमन्त्री देवाङ्गनः अद्य मध्यान्ह 2 वादनसमये कोरबायाः सुभाषचौर्यां दशहरामैदानस्थे आयोजिते हिन्दूसम्मेलनकार्यक्रमे सहभागी भविष्यति। कार्यक्रमोत्तरं मन्त्री देवाङ्गनः अपराह्ण 3 वादनसमये कोरबायाः बुधवारी आर्यशिशुमन्दिरस्य समीपे 1.50 कोटीरूप्यकव्यययुक्तानां नानाविधनिर्माणकार्यानां भूमिपूजनं करिष्यति।

---------------

हिन्दुस्थान समाचार