मध्यप्रदेशस्य मुख्यमन्त्री अद्य 3.77 लक्षकृषकाणां धनागारे 810 कोटि-रूप्यकाणि अन्तरयिष्यति
- रतलाम-जनपदस्य जावरा-नगरे राज्यस्तरीयः कार्यक्रमः भविष्यति भोपाल, 28 दिसम्बर (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनः यादवः अद्य रविवासरे रतलाम-जनपदस्य जावरा-नगरे स्थिते शासकीय-भगत्-सिंह-महाविद्यालये आयोजिते राज्यस्तरीये सोयाबीन-भावान्तर-योज
मुख्यमंत्री डॉ. यादव


- रतलाम-जनपदस्य जावरा-नगरे राज्यस्तरीयः कार्यक्रमः भविष्यति

भोपाल, 28 दिसम्बर (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनः यादवः अद्य रविवासरे रतलाम-जनपदस्य जावरा-नगरे स्थिते शासकीय-भगत्-सिंह-महाविद्यालये आयोजिते राज्यस्तरीये सोयाबीन-भावान्तर-योजना-कार्यक्रमे एक-स्पर्शेण (Single Click) 3.77 लक्ष-कृषकाणां धनागारेषु 810 कोटि-रूप्यकाणि अन्तरयिष्यति। उल्लेखनीयं यत् भावान्तर-योजनायाम् अद्यावधि 6.44 लक्ष-कृषकाणां धानागारेषु 1292 कोटि-रूप्यकाणि अन्तरितानि सन्ति।

जनसम्पर्क-अधिकारिणी अनुराधा गहरवारः शनिवासरे सूचनां दत्त्वा अवदत् यद् अस्मिन् कार्यक्रमे विकासकार्याणां लोकार्पणं तथा भूमिपूजनमपि भविष्यति। मुख्यमन्त्री डॉ. यादवः सुजापुर-ग्रामे पूर्व-सांसदः डॉ.लक्ष्मीनारायणः पाण्डेयः इत्यस्य प्रतिमायाः अनावरणमपि करिष्यति। अस्मिन् अवसरॆ मध्यप्रदेशविधानसभायाः अध्यक्षः नरेन्द्रः सिंहः तोमरः अपि उपस्थितः भविष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ.यादवः तथा विधानसभाध्यक्षः नरेन्द्रसिंहः भोपालनगरात् राजकीयविमानेन प्रस्थानं कृत्वा अपराह्णे 12:30 वादने जावरातहसील-इत्यत्र स्थिते बाराखेड़ाविमानपत्तनम् (हेलीपेड) आगमिष्यतः। भावान्तर-योजना-कार्यक्रमे तथा स्वर्गीय-डॉ. लक्ष्मीनारायण-पाण्डेय-प्रतिमा-अनावरण-कार्यक्रमे सम्मिल्य सायं 5 वादने रतलामविमानपत्तनात् (हेलीपेड) भोपालनगरं प्रत्यागमिष्यतः।

हिन्दुस्थान समाचार / अंशु गुप्ता