Enter your Email Address to subscribe to our newsletters



- पूर्वकेन्द्रीयमन्त्री अरुणजेटलीमहोदयस्य जयन्त्यां नमनम्
भोपालम्, २८ दिसम्बरमासः (हि.स.)। भारतीय-जनता-पक्षस्य पितृपुरुषः कुशाभाऊः ठाकरे तथा राष्ट्रसेवायाः प्रखरः मार्गदर्शकः, मध्यप्रदेशस्य पूर्वमुख्यमन्त्री सुन्दरलालः पटवा इत्यनयोः अद्य रविवासरे पुण्यतिथिः अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डा. मोहनयादवः उभयोः महापुरुषयोः स्मरणं कृत्वा विनम्रां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री डा.यादवः ‘एक्स’ इत्यस्य माध्यमेन सन्देशं प्रकाशयन् कुशाभाऊ-ठाकरे-महोदयस्य पुण्यतिथौ नत्वा लिखितवान् यत्
“भाजपादलस्य पूर्व-राष्ट्रीय-अध्यक्षः, श्रद्धेयः कुशाभाऊः ठाकरे - इत्यस्य पुण्यतिथौ सादरं श्रद्धाञ्जलिं अर्पयामि। नैतिकता-आदर्श-सिद्धान्तानां प्रकाश-स्तम्भः, निष्कामः कर्मयोगी च सः असंख्येभ्यः युवभ्यः देशभक्ति-संस्कारान् प्रदत्तवान्। तस्य अद्वितीयं सङ्गठन-कौशलम्, राष्ट्र-चिन्तनम्, अनुशासितं जीवनं च जनसेवायै सदैव मार्गदर्शकं भविष्यति।”
अन्यस्मिन् सन्देशे मुख्यमन्त्री डा.यादवः मध्यप्रदेशस्य पूर्वमुख्यमन्त्री सुन्दरलालपटवामहोदयस्य पुण्यतिथौ श्रद्धाञ्जलिं अर्पयन् अवदत्- “मध्यप्रदेशस्य पूर्वमुख्यमन्त्री, श्रद्धेयः सुन्दरलालः पटवा इत्यस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं अर्पयामि। जनसङ्घः, राष्ट्रीय-स्वयंसेवक-सङ्घः तथा भारतीय-जनतादलम् - एतैः जनसेवायां, दरिद्र-दुर्बल-वर्गस्य उत्थाने च तस्य समर्पितं सम्पूर्णं जीवनमनुकरणीयोऽध्यायः अस्ति। तस्य चरणयोः नमन-वन्दनञ्च।”
पूर्वकेन्द्रीयमन्त्री अरुण-जेटली-महोदयस्य जयन्त्यां नमनम्
पूर्वकेन्द्रीयमन्त्री अरुणः जेटलीमहोदयस्य अद्य रविवासरे जयन्ती अस्ति। मुख्यमन्त्री डा.मोहनयादवः जयन्त्यां तं स्मरन् स्वसन्देशे अवदत्- “पूर्वकेन्द्रीयमन्त्री, श्रद्धेयः अरुणः जेटलीः- तस्य जयन्त्यां सादरं नमनं करोमि। विधि-क्रीडा-शिक्षादिविविधक्षेत्रेषु तेन कृतमविस्मरणीयं योगदानं प्रति राष्ट्रं सदैव कृतज्ञं भविष्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता