धामी-सर्वकारेण अद्यावधि 571 अवैध-मजाराः अपसारिताः
- देहरादूने अपरापि एका अवैध-मजारा अपसारिता, प्रशासनस्य कार्यवाही प्रचलति देहरादून, 28 दिसम्बर (हि.स.)। अद्यावधि धामी-सर्वकारेण शासकीय-भूमौ निर्मिताः आहत्य 571 अवैध-मजाराः अपसारिताः। रात्रौ उत्तराखण्डराज्यस्य राजधान्यां देहरादूने प्रशासनं शास्त्रीन
धामी-सर्वकारेण अद्यावधि 571 अवैध-मजाराः अपसारिताः


- देहरादूने अपरापि एका अवैध-मजारा अपसारिता, प्रशासनस्य कार्यवाही प्रचलति

देहरादून, 28 दिसम्बर (हि.स.)। अद्यावधि धामी-सर्वकारेण शासकीय-भूमौ निर्मिताः आहत्य 571 अवैध-मजाराः अपसारिताः। रात्रौ उत्तराखण्डराज्यस्य राजधान्यां देहरादूने प्रशासनं शास्त्रीनगरस्य अजबपुरकला-क्षेत्रे मार्गस्य पार्श्वे निर्मितां एकाम् अवैध-मजारां बुलडोजर-यानेन अपसारयत्। सूचनापत्रं (नोटिस) प्रदानान्तरमपि उचितप्रमाणानां कर्गदानां वा अभावात् एषा कार्यवाही कृता।

मुख्यमन्त्री पुष्करः सिंहः धामी उक्तवान् यत् शासकीय-भूमौ अतिक्रम्य निर्मितानां अवैध-संरचनानां विरुद्धं कठोरा कार्यवाही क्रियते। जनाः स्वयमेव एतादृशानां निर्माणानां अपसारणं कुर्युः इत्यपि आग्रहः विहितः।प्रशासनपक्षतः एतस्याः कार्यवाहीप्रक्रियायाः पूर्वं प्रायः द्वौ सप्ताहौ पूर्वमेव सम्बन्धित-स्थले सूचनापत्रं श्लेषितमासीत्, यस्मिन् संरचनानिर्माणसम्बद्धान् उचितकर्गदानि प्रस्तोतुं निर्देशाः दत्ताः आसन्। निर्दिष्ट-कालावधौ किमपि उत्तरं न प्राप्तम्, अतः एषा कार्यवाहीप्रक्रिया अनुष्ठिता।जनपदाधिकारणः निर्देशानुसारं नगर-मजिस्ट्रेट-प्रत्यूषः सिंहः तथा एस.डी.एम. हरिः गिरिः इत्येतयोः नेतृत्वे नगरनिगमस्य दलमवैध-मजारम् अपसारयत्। कार्यवाही-काले संरचनायाः अधः किमपि अवशेषं न दृष्टम्। अपसारितमवशिष्टं तत्क्षणमेव स्थलात् शुद्धीकृतम्।

एस.एस.पी. अजयः सिंहः अवदत् यत् सुरक्षादृष्ट्या कार्यवाहीपूर्वं क्षेत्रं निरुद्धमासीत्। प्रायः एकघण्टापर्यन्तं चलितायाः कार्यवाहीप्रक्रियायाः काले कथञ्चितदपि विरोधः वा अप्रियस्थितिः न अभवत्। प्रशासनिक-अधिकारीणामनुसारं राज्य-सर्वकारेण अद्यावधि शासकीयभूमौ निर्मिताः आहत्य 571 अवैध-मजाराः अपसारिताः।

हिन्दुस्थान समाचार / ANSHU GUPTA