भारत-स्काउट्-गाइड् लखनऊ-पुरस्कारवितरणेन सह जनपदीय-वार्षिक-जनसमागमस्य (रैली) समापनम्
--- संस्थायाः प्रदेशाध्यक्षः डॉ. महेन्द्रसिंहः मुख्यातिथिः आसीत् लखनऊ, २८ दिसम्बरमासः (हि.स.)। भारत-स्काउट्-गाइड्, लखनऊ-उत्तरप्रदेशेन गोपीनाथ-लक्ष्मणदास-रस्तोगी-इण्टर-महाविद्यालयः, लखनऊ इत्यत्र आयोजितायाः त्रिदिवसीयायाः जनपदीय-वार्षिक-समागमस्य तृ
भारत स्काउट और गाइड, उत्तर प्रदेश, जनपद लखनऊ  तीन दिवसीय जनपदीय वार्षिक रैली का समापन समारोह


भारत स्काउट और गाइड, उत्तर प्रदेश, जनपद लखनऊ  तीन दिवसीय जनपदीय वार्षिक रैली का समापन समारोह


भारत स्काउट और गाइड, उत्तर प्रदेश, जनपद लखनऊ  तीन दिवसीय जनपदीय वार्षिक रैली का समापन समारोह


भारत स्काउट और गाइड, उत्तर प्रदेश, जनपद लखनऊ  तीन दिवसीय जनपदीय वार्षिक रैली का समापन समारोह


भारत स्काउट और गाइड, उत्तर प्रदेश, जनपद लखनऊ  तीन दिवसीय जनपदीय वार्षिक रैली का समापन समारोह


--- संस्थायाः प्रदेशाध्यक्षः डॉ. महेन्द्रसिंहः मुख्यातिथिः आसीत्

लखनऊ, २८ दिसम्बरमासः (हि.स.)। भारत-स्काउट्-गाइड्, लखनऊ-उत्तरप्रदेशेन गोपीनाथ-लक्ष्मणदास-रस्तोगी-इण्टर-महाविद्यालयः, लखनऊ इत्यत्र आयोजितायाः त्रिदिवसीयायाः जनपदीय-वार्षिक-समागमस्य तृतीयदिने अद्य रविवासरे मनोरञ्जक-सांस्कृतिक-कार्यक्रमैः तथा पुरस्कार-वितरणेन सह समापनमभवत्।

समारोहस्य मुख्यातिथिः भारत-स्काउट्-गाइड् इत्यस्य उत्तरप्रदेशाध्यक्षः, विधानपरिषद्-सदस्यः तथा पूर्व-जलशक्ति-मन्त्री डॉ. महेन्द्रसिंहः सरस्वतीप्रतिमायाः माल्यार्पणेन स्काउट्-गाइड् छात्रैः प्रस्तुतानां प्रदर्शिनीनां निरीक्षणं कृतवान्। तत्पश्चात् स्काउट्-गाइड्‍-छात्रैः निर्मितानां वितानानां (टेन्ट्-पिचिङ्) निरीक्षणमपि कृतवान्। जिला-मुख्यायुक्तः डॉ. जे.पी.मिश्रः मुख्यातिथेः स्वागतं कृतवान्।

डॉ.महेन्द्रसिंहः विभिन्न-विद्यालयैः प्रस्तुतानां सांस्कृतिक-कार्यक्रमाणि प्रशंसन् बालकैः पात्रं विना निर्मितस्य बाटी-चोखा-इत्यादीनां रसास्वादनमपि कृतवान्। अतिशैत्यकालेऽपि बालकानां धैर्यमनुशासनञ्च सः विशेषतया प्रशंसितवान्। डॉ.महेन्द्रसिंहः ४२ दलान् ‘ए’-श्रेण्याः, ८ दलान् ‘बी’-श्रेण्याः, तथा ३ दलान् ‘सी’-श्रेण्याः शील्ड्-पुरस्कारैः अलङ्कृतवान्। अस्मिनेवावसरे निर्णायकाः, रोवर्स्, रेंजर्स्, तथा डी.ओ.सी. गाइड् मधु-हंसपाल इत्येते अपि सम्मानिताः।

अस्मिन् अवसरे संस्थायाः संरक्षकः तथा जनसमागमस्य संयोजकः डॉ.आर.पी.मिश्रः स्काउट्-गाइड्-भावनया ओत-प्रोतस्य मुख्यातिथेः डॉ.महेन्द्रसिंहमहोदयस्य दृष्टिकोणं प्राशंसत् विकसितस्य आधुनिकस्य च भारतस्य निर्माणे स्काउटिङ्-कार्यस्य महत्त्वं प्रतिपादितवान्।

समापन-कार्यक्रमे मुख्यातिथिना सह समागमस्य संयोजकः संरक्षकश्च डॉ.आर.पी.मिश्रः, जनपद-मुख्यायुक्तः डॉ.जे.पी.मिश्रः, उपाध्यक्षः शर्मिला-सिंहः, पार्षदः राजीवः बाजपेयी, जनपदसचिवः अनिलः शर्मा, जनपद-कोषाध्यक्षः, अनिलः कुमारः वर्मा, माध्यमिक-शिक्षक-सङ्घस्य जिला-मन्त्री महेशचन्द्रः, विद्यालयस्य प्रधानाचार्यः आलोकमिश्रः, तथा विभिन्न-विद्यालयानां प्रधानाचार्याः, शिक्षकाः, शिक्षिकाः, स्काउट्-शिक्षकाः एवं गाइड्-मुख्याश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता