केन्द्रीयगृहमन्त्री अमितशाहः दिनद्वयस्य यात्रायां गुवाहाटीम् आगमिष्यति अद्य
गुवाहाटी, 28 दिसंबरमासः (हि.स.)।केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे स्वस्य दिनद्वयस्य असम-प्रवासस्य अन्तर्गतं गुवाहाटी-नगरीं प्रति आगमिष्यति। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अद्य अमितशाहस्य कार्यक्रमस्थलस्य निरीक्षणानन्तरं पत्रकारेभ्यः अव
मिजोरम में शनिवार को असम राइफल्स के स्थानांतरण समारोह को संबोधित करते हुए केंद्रीय गृह मंत्री अमित शाह।


गुवाहाटी, 28 दिसंबरमासः (हि.स.)।केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे स्वस्य दिनद्वयस्य असम-प्रवासस्य अन्तर्गतं गुवाहाटी-नगरीं प्रति आगमिष्यति। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा अद्य अमितशाहस्य कार्यक्रमस्थलस्य निरीक्षणानन्तरं पत्रकारेभ्यः अवदत् यत् अमितशाहः रात्रौ 11.00 वादने गुवाहाटी-नगरे बरझाड़-स्थिते लोकप्रिय-गोपीनाथ-बरदलै-अन्ताराष्ट्रिय-विमानपत्तने आगमिष्यति। ततः सः खानापाड़ा-क्षेत्रे कोईनाधरा-पर्वते स्थितायां राज्यिक-अतिथिशालायां रात्रिविश्रामं करिष्यति।

सोमवासरे प्रातः 9.00 वादने गृहमन्त्री गुवाहाटी-नगरे बोरागांव-स्थिते शहीद-स्मारके असम-आन्दोलनस्य शहीदेभ्यः श्रद्धाञ्जलिं समर्पयिष्यति। तदनन्तरं गृहमन्त्री बटद्रवा-क्षेत्रं गमिष्यति, यत्र सः श्रीमन्त-शंकरदेवस्य जन्मस्थाने विकसितायाः परियोजनायाः उद्घाटनं करिष्यति। तदनन्तरम् अमितशाहः गुवाहाटी-नगरे गुवाहाटी-पुलिस् इत्यस्य नवनिर्मितस्य आयुक्तालयस्य उद्घाटनं करिष्यति।

सायं 4.00 वादने गृहमन्त्री खानापाड़ा-कृषि-महाविद्यालयस्य समीपे नवनिर्मितस्य विष्णु-ज्योति-कलामन्दिरस्य उद्घाटनं करिष्यति। अयं कलामन्दिरः पञ्चसहस्र-आसनयुक्तम् अत्याधुनिकं प्रेक्षागृहं अस्ति। अत्र गृहमन्त्री विविधेषु कार्यक्रमेषु सहभागितां करिष्यति।तत्पश्चात् सायंकाले गृहमन्त्री पुनः दिल्लीं प्रत्यागमिष्यति।

--------------------

हिन्दुस्थान समाचार