Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 29 दिसंबरमासः (हि.स.) ।
अद्य केन्द्रीयगृहसहकारितामन्त्री अमितशाहः असमराज्यस्य नगाँवजनपदे बटद्रवा-प्रदेशे स्थितायाः बटद्रवा-सांस्कृतिक-परियोजनायाः उद्घाटनं करिष्यति। परियोजनास्थले समागत्य गृहमन्त्रिणः परम्परानुसारं सत्कारः भविष्यति। उद्घाटनसमारेहे प्रायेण १५० सत्राधिकारिणः तथा सुष्ठु ६० सहस्राभक्तवैष्णवाश्च उपस्थिताः भविष्यन्ति। अयं विशालः सांस्कृतिकः परियोजनाप्रकल्पः प्रायः २२७ कोटि रूप्यकाणां व्यये निर्मितः, यः महापुरुषे श्रीमन्ते शङ्करदेवे सम्बन्धिनीं वैष्णवपरम्परां तथा असमराज्यस्य समृद्धां सांस्कृतिकपरम्परां संरक्षितुम् उन्नेतुं च विकासितः।
एतस्मिन्नेव काले केन्द्रीयगृहमन्त्रिणः अमितशाहस्य कार्ययोजनायां परिवर्तनं कृतम्। अद्य तस्य गुवाहाटीनगरं प्रति गमनयोजनाास्ति। रविवासरे अहमदाबादतः गुवाहाटीं गन्तुं नियोजिता विमानयात्रा घनकोहरेण कारणेन निरस्ता अभवत्। तस्मात् पूर्वं मुख्यमंत्री डॉ० हिमन्तबिस्वसरमा कार्यक्रमस्थलस्य निरीक्षणं कृतवन्तः। मुख्यमन्त्रिणा उक्तं यत् रविवासररात्रौ सायं प्रायेण ११ वादने अमितशाहः लोकप्रिय-गोपीनाथ-बरदलै-अन्ताराष्ट्रिय-विमानपत्तने आगन्तुम् आसीत्, ततः खनापाडास्थिते कोइनाधर-हिल्स्-नाम्नि राज्य-अतिथिशाले वासं कर्तुम्।
ते अख्यापयन् यत् सोमवासरप्राते नववादने गृहमन्त्री गुवाहाटीनगरस्य बोरागाँवप्रदेशस्थितं हुतात्म-स्मारकं गत्वा असम-आन्दोलनस्य हुतात्मानं प्रति श्रद्धाञ्जलिं दास्यति। ततः परं ते बटद्रवं गत्वा श्रीमन्त-शङ्करदेवस्य जन्मभूमौ विकासितां सांस्कृतिकपरियोजनाम् उद्घास्यन्ति। अद्य दिवसस्य उत्तरार्धे अमितशाहः गुवाहाटी-नगर-पुलिस-आयुक्तालयस्य नवनिर्मितकार्यालयस्य उद्घाटनं कर्तुं शक्नोति। अपरं च सायं प्रायेण चतुर्वादने खनापाडा-कृषिमहाविद्यालयस्य समीपे निर्मितस्य ५००० आसनयुक्तस्य ‘विष्णु-ज्योति-कलामन्दिरे’ उद्घाटनं करिष्यति।
गृहमन्त्रिणः अद्यैव नवदिल्लीं प्रत्यागमनस्य सम्भावना आसीत्, किन्तु घनकुज्झटिकया सर्वे कार्यक्रमाः पुनर्निर्धारिताः। वार्तालेखस्य समयपर्यन्तं अमितशाहः गुवाहाटीं न प्राप्तवन्तः।
हिन्दुस्थान समाचार