नूतनवर्षे बंगाल सफारीउद्याने वर्धिष्यते वन्यजीवानाम् आकर्षणं, जलहस्ती अथ च जिराफ सम्मेलिष्येते
सिलीगुड़ी, 29 दिसंबरमासः (हि.स)।सिलीगुडीस्थं बंगाल्-सफारीपशूद्याने नूतनवर्षे पर्यटकान् प्रति नवमुपहारं आनयति। नगरस्य प्रमुखपर्यटनस्थानेषु गण्यमाने अस्मिन् बंगाल्-सफारी-पशूद्याने प्रति वर्षं किञ्चिद् नवं द्रष्टुं लभते। गतवर्षे सिंहैः सह लङ्गूलकाः कप
बंगाल सफारी पार्क


सिलीगुड़ी, 29 दिसंबरमासः (हि.स)।सिलीगुडीस्थं बंगाल्-सफारीपशूद्याने नूतनवर्षे पर्यटकान् प्रति नवमुपहारं आनयति। नगरस्य प्रमुखपर्यटनस्थानेषु गण्यमाने अस्मिन् बंगाल्-सफारी-पशूद्याने प्रति वर्षं किञ्चिद् नवं द्रष्टुं लभते। गतवर्षे सिंहैः सह लङ्गूलकाः कपयः सहिताः अनेकाः वन्यजीवाः अत्र आनीयाः आसन्, अस्मिन् वर्षे अपि अयं क्रमः प्रवर्तमानः एव।

सूचनानुसारं वर्षे 2026 इत्यस्मिन् बंगाल्-सफारीपशूद्याने जलहस्ती (हिप्पोपोटेमस), जिराफः सहिताः अन्ये अपि अनेके नूतनाः वन्यजीवाः आनेतुं योजना अस्ति। केवलं जलहस्ती-जिराफौ न, अपितु अन्येषां बहूनां प्रजातीनां कृते अपि पार्क् पूर्णतया सज्जः अस्ति। व्याघ्राणां पश्चात् सिंहानां सफलप्रजननकारणात् वनविभागः पार्कस्य क्षमतां विषये अत्यन्तं निश्चिन्तः अस्ति। तस्य एव आधारेण नानाविधेषां वन्यजीवानां कृते याचना पूर्वमेव उच्चाधिकारिणः प्रति प्रेषिता।

वर्तमानकाले बंगाल्-सफारी-पार्के रॉयल्-बंगाल्-व्याघ्रस्य संख्या चतुर्दशत्वं प्राप्तवती, सिंहानां तु संख्या चत्वारि। व्याघ्र-सफारी पूर्वमेव पर्यटकानां कृते उद्घाटिता अस्ति, किन्तु सिंहाः अद्यापि केवलं प्रदर्शनार्थं एव स्थापिता:। नूतनवर्षे सिंहान् अपि पर्यटकानां कृते मुक्तसफारी-क्षेत्रे निवेशयितुं योजना विचाराधीनाऽस्ति।

बंगाल्-सफारी-पार्कस्य निदेशकः ई. विजयकुमारः उक्तवान्— “नूतनवर्षे शीघ्रमेव जलहस्ती सफारी-पार्कम् आगमिष्यति। जिराफं सहित्य अन्यान् अपि बहून् पशून् आनयितुं योजना अस्ति। तदनन्तरं पर्यटकानां मध्ये लोकप्रियां गजारोहणं पुनरारब्धुं वयं शीघ्रं प्रयासं कुर्मः।”

हिन्दुस्थान समाचार