Enter your Email Address to subscribe to our newsletters

भोपालः, २९ दिसम्बरमासः (हि.स.)। २०२५ तमं वर्षं मध्यप्रदेशस्य कृते ड्रोन-प्रौद्योगिक्याः क्षेत्रे ऐतिहासिकं वर्षत्वेन प्रादुर्भूतम्। अस्मिन् वर्षे राज्यं सशक्तया नीत्या ड्रोन-आधारित-उद्योगान्, स्टार्ट-अप्-संस्थाः तथा निवेशान् आकर्षयन् कृषिक्षेत्रे, शिक्षायां, कौशलविकासे, शासन-प्रशासने 'ड्रोन' इत्येतेषां व्यावहारिक-उपयोगेन एतत् सिद्धं यत् प्रौद्योगिकीं यदि विकासस्य यथार्थसाधनं क्रियते तर्हि विकासे शीघ्रताम् आनेतुं शक्यते। मुख्यमन्त्री डॉ.मोहनयादवस्य नेतृत्वे राज्यसर्वकारेण स्पष्टं सन्देशं दत्तं यत् मध्यप्रदेशः अधुना पारम्परिक-विकास-नमूनातः अग्रे वर्धित्वा उच्च-प्रौद्योगिकी-आधारित-अर्थव्यवस्थां प्रति अग्रसरः अभवत्।
२०२५ तमवर्षस्य महत्त्वपूर्णतम-उपलब्धिरूपेण “मध्यप्रदेश-ड्रोन-संवर्धन-एवं-उपयोग-नीतिः–२०२५” प्रकाशिता। अस्याः नीत्याः उद्देश्यं राज्यं ड्रोन-निर्माणस्य, अनुसन्धानेन, प्रशिक्षणेन उपयोगेन च राष्ट्रियकेन्द्रं कर्तुम् अस्ति। अस्याः नीत्याः माध्यमेन ड्रोन-निर्माण-एककानां कृते पूँजी-अनुदानम्, अनुसन्धान-विकासाय अनुदानं, भूमौ भाटके च अनुकूलनं, मुद्राङ्क-शुल्के च न्यूनता इत्यादीनि प्रोत्साहनानि दत्तानि। अनेन वैयक्तिकनिवेशकेषु तथा स्टार्ट-अप्-संस्थासु उत्साहः वर्धितः, राज्ये ड्रोन-आधारित-उद्योगानां कृते अनुकूलं वातावरणं च निर्मितम्।
ड्रोन-नीत्या सहस्रं यूनां कृते रोजगारस्य अवसराः
अस्मिन् अवसरे मुख्यमन्त्री डॉ.मोहनयादवः स्पष्टं कृतवान् यत् ड्रोन-प्रौद्योगिकी न केवलं नवयन्त्रम्, अपि तु विकासस्य, पारदर्शितायाः तथा रोजगारस्य सशक्तं माध्यमम् अस्ति। तस्य मतानुसारं मध्यप्रदेशस्य नीत्याः उद्देश्यं यूनः नव-प्रौद्योगिक्या सह योजयितुं, कृषकाणां व्ययम् अल्पीकर्तुं, शासनमधिकं प्रभावशीलं कर्तुं तथा राज्यं तान्त्रिक-नवाचारस्य मानचित्रे दृढतया स्थापयितुं च अस्ति। सः एतदपि निर्दिष्टवान् यत् ड्रोननीत्याः माध्यमेन आगामीवर्षेषु राज्यं सहस्रशः यूनां कृते नवान् रोजगार-अवसरान् सर्जयिष्यति तथा मध्यप्रदेशं निवेशकानां कृते प्रथमं रुच्यात्मकं राज्यं करिष्यति।
ड्रोन-प्रौद्योगिक्याः सर्वाधिकः प्रभावः कृषिक्षेत्रे दृष्टः। २०२५ तमे वर्षे अनेकेषु जनपदेषु ड्रोनमाध्यमेन सस्यनिरीक्षणं, कीटनाशक-उर्वरक-सिञ्चनं, भूमेः सर्वेक्षणं तथा सस्य-स्वास्थ्य-मूल्याङ्कनं कृतम्। अनेन कृषकाणां समयः रक्षितः, श्रमव्ययः न्यूनः अभवत्, कृषि च अधिका वैज्ञानिक्या सम्यक् च जाता। एषः प्रयत्नः विशेषतः लघु-मध्यम-कृषकाणां कृते हितकरः सिद्धः, ये प्रथमवारमाधुनिक-प्रौद्योगिकीं प्रत्यक्षतया स्वकृषक्षेत्राय अवलम्बितवन्तः।
ड्रोननीतेः एकः महत्त्वपूर्णः स्तम्भः कौशलविकासः तथा शिक्षा आसीत्। राज्यसर्वकारेण आई.टी.आई., पॉलिटेक्निक् तथा अभियान्त्रिकी-संस्थासु ड्रोन-सम्बद्ध-पाठ्यक्रमान् आरब्धुं प्रयासाः कृताः। ड्रोनसञ्चालकः, अनुरक्षणतन्त्रज्ञः, रूपपरिकल्पना-अभियन्ता, विषय-विश्लेषकः इत्यादीनां नवानां कौशलानां प्रवर्धनं कृतम्। अनेन युवानः पारम्परिकरोजगारेभ्यः अतिरिक्तं भविष्यस्य तान्त्रिकरोजगारेभ्यः अपि सज्जीकृताः।
ड्रोनमाध्यमेन प्राप्तांशस्य उपयोगः नगरनियोजनपर्यावरणनिरीक्षणे सफलतया भवति
एतस्य समग्र-तान्त्रिक-परिस्थितिकी-तन्त्रस्य सुदृढीकरणे मेपकोस्ट् (MPCOST – मध्यप्रदेश-विज्ञान-प्रौद्योगिकी-परिषद्) इत्यस्य भूमिका अपि अत्यन्तं महत्त्वपूर्णा अभवत्। मेपकोस्ट्-समितेः महानिदेशकः डॉ.अनिलकोठारीः अवदत् यत् २०२५ तमे वर्षे ड्रोन-प्रौद्योगिक्या एतत् सिद्धं यत् विज्ञानं प्रौद्योगिकी च यदि नीति-प्रशासनेन सह युज्येते तर्हि तस्य प्रत्यक्षं लाभः समाजः प्राप्नोति। तेन निर्दिष्टं यत् मेपकोस्ट्-माध्यमेन राज्ये ड्रोन-आधारित-अनुसन्धानं, प्राप्तांश-सङ्ग्रहः, तान्त्रिक-प्रशिक्षणं तथा नवाचारः वैज्ञानिक-आधारं प्राप्तवान्। तस्य कथनानुसारं ड्रोनमाध्यमेन प्राप्तांशस्य उपयोगः नगरीय-योजना, जल-संसाधन-प्रबन्धनं, पर्यावरण-निरीक्षणं तथा आपदा-प्रबन्धनादिषु क्षेत्रेषु कृतः, येन निर्णय-प्रक्रिया अधिका सम्यक् शीघ्रता च अभवत्।
२०२५ तमे वर्षे ड्रोन-प्रौद्योगिक्याः उपयोगः शासन-प्रशासने सार्वजनिक-सेवासु च वेगेन वर्धितः। भूमेः सर्वेक्षणे, अवैध-अतिक्रमण-परिचये, मार्ग-सेतु-निरीक्षणे, सम्मर्द-प्रबन्धने तथा आपदाकाले त्वरित-मूल्याङ्कने ड्रोन इत्येतेषां प्रयोगः कृतः। अनेन प्रशासकीयकार्येषु पारदर्शिता वर्धिता, समय-साधनयोः च रक्षणं जातम्। एषः तान्त्रिक-हस्तक्षेपः “डिजिटल्-गवर्नेन्स” दिशायां दृढः पदक्षेपः मन्यते।
निवेश-रोजगार-दृष्ट्या अपि २०२५ तमं वर्षमत्यन्तं महत्त्वपूर्णमभवत्। ड्रोन-नीतेः पश्चात् अनेकाः राष्ट्रियाः स्थानीयाः च निर्माण्यः मध्यप्रदेशे निवेशे रुचिं प्रदर्शितवन्त्यः। अनुमानं यत् आगामि-वर्षेषु ड्रोन-क्षेत्र-सम्बद्ध-उद्योगैः सहस्रशः प्रत्यक्ष-अप्रत्यक्ष-रोजगाराः उद्भविष्यन्ति। अतः २०२५ तमं वर्षं मध्यप्रदेशस्य कृते ड्रोन-प्रौद्योगिक्यामात्मविश्वासस्य उपलब्धीनां च वर्षम् आसीत्। ड्रोन-प्रौद्योगिक्या माध्यमेन मध्यप्रदेशः वर्तमान-समस्यानां समाधानमन्विष्य भविष्यस्य उड्डयनाय अपि दृढं मार्गं निर्मातुं प्रारब्धवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता